________________
३१ ८४
भारद्वाजस्मृतिः शुचिर्विप्रस्य पालाशः नृपश्चौदुबरो विशः। बैल्वो विशः समाख्यातः क्रमेण ब्रह्मचारिणः ॥१२॥ विप्रस्य दंडः पालाशः नैय्यग्रोधो महीपतेः । वैश्यस्यौटुबरः प्रोक्तः अलाभे त्वग्रजन्मनः ॥१२२।। पालाशबिल्वौ विप्रस्य पैप्पलं क्षत्रियस्य तु । वैश्यस्य पैलवो दण्डः समानि ब्रह्मचारिणः ॥१२३।। स्वस्य शाखोक्तदंडानामलाभे सर्वसोमपाम् । सर्वेष्वेषु यथालब्धो दडःस्यात्संकटस्थले ॥१२४॥ नृपस्य स्वस्य वैश्यस्य भवेयुः सर्वभूरुहाः । स्ववृक्षा एव वैश्यस्य दण्डसंग्रहणे स्मृताः ।।१२।। गृहस्थस्यवसस्तस्य यतेरासु त्रिजातिषु । वेणुदंडः प्रशस्तःस्यात् निर्दोष"प्रणक:(?) ॥१२६।। गुह्यारण्यस्थयोर्दण्डो युक्पर्वो यतिनोऽन्यथा। शिरःप्रमाणं विप्रस्य क्षत्रियस्यालकोन्नतम् ।।१२७।। घ्राणप्रमाणं वैश्यस्य दंडमेवं क्रमात्स्मृतम् । क्रिमिदुष्टः स्वयं शुष्कः सरंध्रः कुटिलो लघुः ॥१२८॥ श्रितो निर्वल्कलो दंडः यो न योग्यः स कथ्यते । सत्रणः फलकाकारः परुषो नवकन्दकः ॥१२।। जीर्णोवयुक्तो यो दंडो न योग्यःस्यात्सदारणे । समच्छेदांगुलव्यस्तो पक्काऽऽयामः सुवर्तुलः ॥१३०।। चक्षुस्याभिनवो दंडो योऽसौ सकलसिद्धिदः । एतैश्चदोषरहितैर्वध्वानयनवल्लभम् ॥१३१।।