________________
यज्ञोपवीतविधानम्
त्रयोऽग्नयस्त्रयोवर्णा त्रयोवेदास्त्रयः स्वराः । तिस्रोव्याहृतयो देवाः त्रयस्त्रिंशच्च शक्तयः ॥८८॥ अस्मिन्यज्ञोपवीतेऽमी वसंत्यत्र मुदाहृताः । तस्माद्विजानतो भक्त्या ब्रह्मसूत्रं द्विजोत्तमः ॥ ८६ ॥ कृत्वैव धारयेच्छश्वत् सर्वकर्मफलाप्तये । द्विजानां स्थूलकायानां उपवीताय तु प्रमा ॥६०॥ स्वनाभिसदृशं ज्ञेयं स्थूलमानपुरोक्तवत् । इह पादतलस्थैर्यद्ब्रह्मसूत्रं हृदिस्थितम् ||१|| यथादृश्यं तथाधायं ब्रुवत्येते महर्षयः । नाभेरूर्ध्वमनायुष्यं अधोनाभेस्तपःक्षयः ||२|| तस्मान्नाभिसमं दद्यात् उपवीतं द्विजः सदा । उपवीतं निवीतं च प्राचीनावीतमित्यपि ॥ ६३॥ देवमानुषपित्र्येषु कर्मस्वेतत्त्रयं स्मृतम् । करेऽपसव्ये प्रक्षिप्तमुपवीतमुदाहृतम् ||४|| प्राचीनावीतमन्यस्मिन्निवीतं कंठलम्बितम् । उपवीतं ब्रह्मसूत्रं यज्ञोपवीतकम् ||१५|| यज्ञसूत्रं देवलक्ष्म चैत्याषट्कमस्य तु । द्विजस्य दक्षदो कंठा ॥६६॥ आहृतास्तेयतस्तस्मादुपवीतं तदुच्यते । ब्रह्माख्यौ द्वौ तपोवेदौतापत्र प्रसूचनात् ॥६७॥ ब्रह्मसूत्रमितिख्यातं एतद्ब्रह्माख्यसाधनम् । भूम्यन्तरिक्षस्वर्गेषु वर्त्तते यानि तानि च ॥६८॥
३१ ८१