Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 736
________________ यज्ञोपवीतविधिवर्णनम् ४०८३ यज्ञोपवीतं संधार्य जातुचिद्ब्रह्मचारिणा । विप्रस्यशालीरशना मौर्वी भूपस्य मेखला ॥११०।। अपि सूत्रकृतं तच्च वैश्यस्य ब्रह्मचारिणः। विप्रादीनां त्रयाणां च त्रिवृता त्रिप्रदक्षिणा ॥११॥ त्रिवृद्मन्थिरितिप्रोक्ता मेखला स्मृतिचोदिता। कौपीनधारणायाऽथ शुल्वं कृत्वोपवीतवत् ॥११२॥ यतिश्चब्रह्मचारी च दध्यातां वै प्रदक्षिणम् । नग्नत्वपरिहाराय गृहस्थवर्णिनस्त(नां?) था ॥११३।। तथैवधारयेयातां अवश्यं केवलं च तौ। तालद्वितयविस्तारतद्वद्विगुणमायतम् ॥११४॥ तत्कौपीनमिति प्रोक्त स्वीयहस्तप्रमाणतः । सव्यं पार्श्वद्वयदशासमेतं सूक्ष्ममुत्तमम् ॥११॥ विप्रस्य वासः काषायं मञ्जिष्ठ क्षत्रियस्य तु । वैश्यस्य पीतमित्युक्त क्रमेण ब्रह्मचारिणः ॥११६।। गृहस्थस्यनितं वस्त्रं वानप्रस्थस्यचापितत् । .. काशायमुत्तरासंगं यतेराहुश्च नूतनम् ॥११७।। द्वादशांगुलविस्तारं स्वस्ववस्त्रं दशांगुलम् । यज्ञसूत्रायतं यत्तदुत्तरीयमिति स्मृतम् ॥११८॥ शुक्लांबरं गृहस्थस्य विप्रस्याऽथ महीपतेः । पट्टानि नववस्त्राणि वैश्यस्य च तथैव हि ।।११।। कुसुंभरक्तवस्त्राणि चोदितानि महीतले । वैश्यस्य पीतवस्त्राणीत्याहुः केचिन्महर्षयः ।।१२०।।

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768