Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 80
________________ E दण्डमार्गेण ब्रह्मरन्ध्रपर्यन्तं वहति ) एवं दशद्वारेषु वहन्ति ( अन्या सर्वा नॉड्यो रोमकूपेषु वहन्ति ) ॥ ६७॥ 11 अथ दशावयवः ।। हृदये प्राणवायुः उच्छ्रास - निश्वास - कारको हकार - सकारात्मक । गुदे त्वपानवायुः रेचकः कुम्भक । नाभौ समानवायुः दीपकः पावक । कॅण्टे व्यानवायुः शोषणाप्यायनकारकश्च । तालौ उदानवायुः ग्रसन - वमन - जल्पकारकश्च । नागवायुः सर्वाङ्गव्यापकः मोचकंश्चालकश्च । कूर्मवायुः चक्षुषोरुन्मेष - कारकच । कृकल: उद्गारकश्च क्षुत्कारकच । देवदत्तो मुखे विजृम्भकः । धनञ्जयो नाद । घोषक इति दशवायुरवलोकनेन पिण्डोत्पत्तिः नरनारीरूपम् ॥ ६८ ॥ अथ गर्भोलिपिंडोत्पत्तिः ॥ नरनारीसंयोगे ऋतुकाले ।। ६९ ।। रजोबिन्दुसंयोगे सः जीवः प्रथमदिने कलेलं भवति सप्तरात्रे बुद्बुदाकारं भवति । अर्द्धमासे गोलाकारं भवति मासमात्रे कठिनं भवति । मासद्वयेन शिरो भवति तृतीये मासि हस्तपादादिकं भवति । चतुर्थे मासि चक्षुकर्णादि - नासिका - मुखं मेद्र भवति । पञ्चमे मासि पृष्ठोदरौ भवतः षष्ठे मासि नखकेशादिकं भवति । सप्तमे मासि सर्वचेतनयुक्तो भवति अष्टमे मासि सर्वलक्षणसंयुक्तो भवति नवमे मासि सत्यज्ञानगर्भसंयुक्तो भवति । दशमे मासि योनिसंस्पर्शादज्ञानी बालको भवति ।। ७० ॥ २४-नास्तिवाक्यमिदम्(ह.). २५ - नास्ति वाक्यमिदम् (ह.). २६ - " अस्यैवावस्थाभेदे हठयोग इति संज्ञा हकारः कीर्तितः सूर्यष्ठकारश्चन्द्र उच्यते । सूर्याचन्द्रमसोयोगात् हठयोगो निगद्यते " । अधिकोऽयं पाठः ह. ). २७ - कुम्भकपूरकश्च (ह. ). २८पाचकश्च ( इ. ). २९ - सवोङ्ग ( ह. ). ३० - शब्दोऽयं नास्ति ( ह. ). ३१कुम्भकश्चक्षु (इ.). ३२- कलनं ( यो. ), कलिलं (का.). ३३ – मेढ्रं गुदं (ह. का.). ३४ - सत्यज्ञानयुक्तः (ह.). -

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166