Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 89
________________ मेरुपर्वतो मेरुखण्डे वसति कैलासो ब्रह्मकपाटे वसति हिमालयः पृष्ठे मलयो वामकन्धरे मन्दरो दक्षिणकन्धरे विन्थ्यो दक्षिणकणे मैनाक: वामकर्णे श्री-पर्वतो ललाटे एवमष्ट कुलपर्वताः अन्ये उपपर्वताः सर्वाङ्गुलिषु वसन्ति ॥१०॥ पीनसा गंगा यमुना चन्द्रभागा सरस्वती । पिपासा शतरुद्रा च श्रीरात्रिश्चैव नर्मदा एवं नव नद्यो नवनाडीसु वसन्ति ॥११॥ अन्या उपनद्यः कुल्योपकुल्याः द्विसप्तति-सहस्त्र-नाडीसु वसन्ति ।। १२ ।। सप्तविंशति नक्षत्राणि द्वादश राशयः नव ग्रहाः पञ्चदश तिथयः एते अन्तर्वलये द्विसप्तति सहस्र-स्वहस्त-कोष्ठेषु वसन्ति । अनेकतारामण्डलं ऊर्मिषु वसन्ति । यात्रंशत्-कोटिदेवता बाहुरोमकूपेषु वसन्ति । अनेकपीठोपपीठकाः रोमकूपेषु वसन्ति । देवदानव-यक्ष-राक्षस-पिशाच-भूतप्रेताः अस्थिसन्धिषु वसन्ति । कुलनागा वक्षसि वसन्ति । अन्ये सनकादिमुनिसंधाः कक्षरोमकूपेषु वसन्ति । अन्ये पर्वता उदर-लोमसु वसन्ति । गन्धर्व-किन्नरकिंपुरुषा अप्सरसो गणा उदरे वसन्ति । अन्याः खेचरी-लीलामातरः शक्तयः उग्रदेवता वायुवेगे वसन्ति । अनेकमेघाः अश्रुपाते वसन्ति । अनेकतीर्थानि मर्मस्थाने वसन्ति । अनन्तसिद्धाः मतिप्रकाशे वसन्ति । चन्द्रमूर्यो नेत्रद्वये वसतः । अनेक वृक्षलतागुल्मतृणानि जंघारोमककूपस्थाने वसन्ति । अनेककृमिकीटपतङ्गाः पुरीषे वसन्ति ॥१३॥ यत्सुखं तत्स्वर्ग यद्दःखं तन्नरकं यत्कर्म तद्वंधनं यनिर्विकल्पं तन्मुक्तिः स्वस्वरूपदशायां निद्रादौ स्वात्मजागरः शान्तिर्भवति । एवं सर्वदेहेषु विश्वस्वरूपः परमेश्वरः ६-दण्डे (इ. का.). ७-पीतसा (तं.). ८-वितस्ता (का.).

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166