Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 125
________________ समहस्तयुगो भूत्वा समपादयुगस्तथा । वेधयेत्क्रमयोगेन चतुष्पीठं तु वायुना ॥ ३९ ॥ आफालयेन्महामेरू वायुवज्राग्निकोटिभिः। पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥ ४० ॥ सोमसूर्याग्निसम्बन्धं जानीयादमृताय वै । मृतावस्स्था समुत्पन्ना ततो मृत्युभयं कुतः ॥४१॥ एतत्त्रयं महागुण्यं जरामृत्युविनाशनम् । अष्टधा क्रियते चैतत् यामे यामे दिने दिने ॥४२॥ वहिवृद्धिकरं चैव अणिमादिगुणप्रदम् । पुण्यं सञ्चयसंहारि पापौघभिदुरं सदा ॥४३॥ सम्यगृशिक्षावतामेवं स्वल्पं प्रथमसाधने । वहिस्त्रीपथसेवानामादौ वर्जनमाचरेत् ।। ४४ ।। आरम्भश्च घटश्चैव प्रत्ययश्च तृतीयकः । निष्पत्तिः सर्वयोगेषु योगावस्था चतुर्विधा ॥४५॥ ब्रह्मग्रन्थे भवेद वेधादानन्दा....न्यसम्भवम् । विचित्रक्वणको देहेनाहतः श्रूयते ध्वनिः ॥४६॥ दिव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् । सम्पूर्णहृदयश्शूर आरम्भे योगिनो भवेत् ॥४७॥ द्वितीयायां घटीकृत्य वायुभवति मध्यगः । दृढासनो भवेद्योगी ज्ञानादेव समप्रभः ॥४८॥ विष्णुग्रन्थेस्तथा वेधात् परमानन्दसूचकः । अतिशून्ये विमर्दश्च मेरीशब्दस्तथा भवेत् ॥ ४९।। तृतीयायां ततो भित्वा विपाको ( विहायो) मईलध्वनिः । महाशून्यं तदा जातं सर्वसन्धि( सद्धि समाश्रयम् ॥५०॥

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166