Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 144
________________ ७१ यथा संक्षीयते प्राणो मानसश्च विलीयते । तथा समरसैकत्वं समाधिः सोऽभिधीयते ॥१७७॥ इन्द्रियाणि मनोवृत्तिरपरोक्षेपयाहि सः । अद्वयत्वं गते जीवे न मनो इन्द्रियाणि च ॥१७॥ न गन्धो न रसं रूपं न स्पर्शो न च निस्वनः। नात्मानश्च परं वेद योगयुक्तः समाधिना ॥१७९ ॥ अभेद्यः सर्वशास्त्राणां अबाध्यः सर्वदेहिनाम् । बाध्यते न च कालेन बाध्यते न च कर्मणा ॥१८०॥ साध्यते न च केनापि योगियुक्तः समाधिना । अग्राह्यो मन्त्रशास्त्राणां योगियुक्तः समाधिना ॥१८१॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १८२ ॥ निरातङ्गं निरालम्ब निष्प्रपञ्च निराश्रयम् । निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥१८३॥ निर्मलं निश्चलं नित्यं निर्गुणं निष्क्रिय महत् । व्योमविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः ॥ १८४ ॥ कातु दृष्टान्त निर्मुक्तमनुबन्धेरगोचरम् । व्योमविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः ॥ १८५ ॥ दुग्धे क्षीरं घृते सपिर्वह्नौ वहिरिवार्पितम् । अव्ययत्वं ब्रजेदेवं योगिलीनः परात्परे ॥१८६ ॥ भववनजवह्नि मुक्तिसोपानमार्गम् । प्रकटितपरमार्थ ग्रन्थगुह्यश्च गुह्यम् ॥१८७॥ सकृदपि पठतिच मयः श्रृणोति प्रबद्धम् । स भवति भुवि भव्यो भाजनं मुक्तिमुक्तयोः ॥१८८॥ ॥ इति श्रीगोरक्षनाथविरचिते योगशास्त्रे योगमार्तण्डं समाप्तम् ॥ ॥ साम्बसदाशिवार्पणमस्तु ॥

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166