Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona
________________
शोपणा च भवत्येपा भूतानां पञ्चधारणा ॥ १५४ ॥ कर्णानां मधुरस्सर्वा धारणा पश्च दुर्लभाः। विज्ञाताः सततं येन सर्व पापैः प्रमुच्यते ।। १५५ ।। सर्व द्वित्वा समायुक्तं योगिनो हृदि वर्तते ॥ यस्तत्त्वे निश्चलं चेतः तदध्यानं च प्रचक्षते ॥१५६ ।। द्विधा भवति तद्ध्यानं सगुण निर्गुणं तथा । सगुणं वर्णभेदेन निर्गुणं केवलं विदुः ॥१५७॥ अश्वमेधसहस्राणि वाजपेयशतानिच । एकस्य ध्यानयोगेन कलां नाहन्ति पोडशीं ॥१५८ ॥ अन्तश्चेता बहिश्चक्षुरधिष्ठाय सुखासनम् । समत्वंच शरीरस्य ध्यानमुद्रेति कीर्तिता ।। १५५ ।। आधारं प्रथमं चक्रं तप्तकाश्चनसन्निभम् । नामाग्रे दृष्टिमादाय ध्यात्वा मुश्चति किल्विपम् ।। १६० ॥ स्वाधिष्ठानं द्वितीयं च सन्माणिक्यशिखोपमम् । नासाग्रे दृष्टिमादाय ध्यात्वा संशोभते जगत् ।। १६१॥ हृदाकाशस्थितं चक्र प्रचण्डरवितेजनम् । नासाग्रे दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ।। १६२ ॥ सततं कर्णिकामध्ये विशुद्धं चक्रमुच्यते । नासाग्रे दृष्टिमादाय ध्यात्वा दुःखात्प्रमुच्यते ॥१६३ ।। स्रवत्पीयूषसम्पूर्ण लम्बिके चन्द्रमण्डलम् । नासाग्रे दृष्टिमादाय ध्यात्वा मृत्यु प्रमुञ्चति ॥ १६४ ॥ भ्रुवोर्मध्ये स्थितं देवं स्निग्धमौक्तिकसनिभम् । नासाग्रे दृष्टिमादाय ध्यात्वानन्दमयं भवेत् ॥१६५॥
Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166