SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ शोपणा च भवत्येपा भूतानां पञ्चधारणा ॥ १५४ ॥ कर्णानां मधुरस्सर्वा धारणा पश्च दुर्लभाः। विज्ञाताः सततं येन सर्व पापैः प्रमुच्यते ।। १५५ ।। सर्व द्वित्वा समायुक्तं योगिनो हृदि वर्तते ॥ यस्तत्त्वे निश्चलं चेतः तदध्यानं च प्रचक्षते ॥१५६ ।। द्विधा भवति तद्ध्यानं सगुण निर्गुणं तथा । सगुणं वर्णभेदेन निर्गुणं केवलं विदुः ॥१५७॥ अश्वमेधसहस्राणि वाजपेयशतानिच । एकस्य ध्यानयोगेन कलां नाहन्ति पोडशीं ॥१५८ ॥ अन्तश्चेता बहिश्चक्षुरधिष्ठाय सुखासनम् । समत्वंच शरीरस्य ध्यानमुद्रेति कीर्तिता ।। १५५ ।। आधारं प्रथमं चक्रं तप्तकाश्चनसन्निभम् । नामाग्रे दृष्टिमादाय ध्यात्वा मुश्चति किल्विपम् ।। १६० ॥ स्वाधिष्ठानं द्वितीयं च सन्माणिक्यशिखोपमम् । नासाग्रे दृष्टिमादाय ध्यात्वा संशोभते जगत् ।। १६१॥ हृदाकाशस्थितं चक्र प्रचण्डरवितेजनम् । नासाग्रे दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ।। १६२ ॥ सततं कर्णिकामध्ये विशुद्धं चक्रमुच्यते । नासाग्रे दृष्टिमादाय ध्यात्वा दुःखात्प्रमुच्यते ॥१६३ ।। स्रवत्पीयूषसम्पूर्ण लम्बिके चन्द्रमण्डलम् । नासाग्रे दृष्टिमादाय ध्यात्वा मृत्यु प्रमुञ्चति ॥ १६४ ॥ भ्रुवोर्मध्ये स्थितं देवं स्निग्धमौक्तिकसनिभम् । नासाग्रे दृष्टिमादाय ध्यात्वानन्दमयं भवेत् ॥१६५॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy