Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 141
________________ भ्रूरादिपंचभूतानां धारणा च पृथक पृथक् । मनसो निश्चलत्वेन धारणा च विधीयते ॥१४२॥ यः पृथ्वी हरितालहेमरुधिरातत्वेलकारान्वितम् । . संयुक्तं कमलासनेन हि चतु:कोणा हरिस्थायिनी ।।१४३ ॥ प्राणं तत्र विनीय्य पंच घटिकाचित्तान्वितं धारयेत । येषां स्तंभकरी सदा क्षितिजयाकुर्यात्ततो धारणा ॥१४४ ॥ अर्धेन्दुप्रतिमं च कुन्दधवलं कर्णे च तत्त्वस्थितं । तत्पीयूषवकारखीजसहित युक्तं सदा विष्णुना ॥१४५॥ प्राणं तत्र विलीय्या पंचघटिकाचित्तान्वितं धारयेत् । विषाग्निः सह कालकूट रजिना तद्वारुणी धारणा ॥१४६ ॥ तालौ संस्थितमिन्द्रगोपसदृशं तत्वं त्रिकोणान्वितम् तेजो रेफमयं प्रवालरुचिरं रुद्रेण सत्संगतम् ॥ १४७ ॥ प्राणं तच विलीन पंच घटिका चित्तान्वितं धारणा ॥१४८॥ तेषां वह्निमसंसलं ज्वलते वैश्वानरी धारणा । यद्भिन्नांजनपुंजसनिभमिदं दृष्ट्वा भ्रुवोरन्तरे॥१४९॥ तत्त्वं सत्यमयं यकारसहितं यत्रेश्वरो देवता । प्राणं तच्च विनीय्य पंचघटिका चित्तान्वितं धारयेत् ॥१५०॥ येषां योगमनं (ल) करोति यमिनां सा वायवी धारणा । आकाशं शुचिशुद्ध वा सदृशं यद्ब्रह्मरन्धस्थितम् ॥ १५१ ॥ तन्मध्ये सदाशिवेन सहितं युक्तं यकाराक्षरम् । प्राणं तत्रविलीनपंचघटिका चित्तान्वितं धारयेत् ॥ १५२ ॥ तेषां मोक्षकवाटभेदनपटुः प्रोक्ता नभोधारणा । स्तम्भी निद्रा-चैव दाहिनी भ्रामिणी तथा ॥१५३॥

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166