Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona
________________
७०
ध्यानेन लक्षणं नित्यं भ्रूमध्ये परमेश्वरम् । आत्मना वर्जितं प्राण योगी योगमवाप्नुयात् ॥ १६६॥ निर्गुणश्च शिवं शान्तं गगने विश्वतोमुखम् । भ्रूमध्ये दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ॥१६७॥ निर्मलं गगनाकारं मरीचिजलसन्निभम् । आत्मानं सर्वगं ध्यात्वा योगी योगमवाप्नुयात् ।। १६८ ॥ गुदं मेश्च नाभिश्च हृदयं चक्रमूर्ध्वतः । घटिका लम्बिका स्थानं भ्रमध्यञ्च नभोबिलम् ॥ १६९ ।। कथितानि चैवैतानि ध्यानस्थानानि योगिनाम् । उपाधितत्त्वयुक्तानि कुर्वत्यष्टगुणोदयम् ।। १७० ।। उपातिष्ठितया तत्त्वं द्वयमेतमुदाहृतम् । उपाधि प्रोच्यते वर्णः तत्त्वमात्माभिधीयते ॥ १७१॥ उपाधिरन्यथा ज्ञानं तत्त्व संस्थितिरन्यथा । समस्तोपाधि निर्मुक्तं तत्तत्त्वं योगिनो विदुः ॥१७२ ।। शब्दादीनां च तन्मात्रं यावत्कर्मादिषु स्थितम् । उपाधिवर्णयोगेन दृश्यते स्फटिको मणिः ॥१७३ ।। युक्तयः शक्तिभेदेन तत्सदात्म प्रकाशिते । विरजं परमाकाशं यद्यदक्षरमव्ययम् । स्तौति श्रुतिकृतिरहोरात्रं तत्त्वं तत्त्वविदोविदुः ॥१७४ ॥ तावद्व्यवस्थितं ध्यानं तत्समाधिपरं तपः। धारणं पञ्च नाड्यस्तु ध्यानं षट् चैव नाडिकाः ॥१७५। ये द्वादशचक्रेनैव समाधि प्राणसंयमः । अम्बुसैन्धवयोस्साम्यं यदा भवति योगतः । तथात्ममनसोरक्यं समाधिः सोऽभिधीयते ॥ १७६ ॥
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166