Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona
________________
चन्द्रामृतमयीं धारां प्रत्याहरति भास्करः । तं प्रत्याहरणं यं तु प्रत्याहारः स उच्यते ॥ ११९ ॥ एकांस्त्रि युज्यते त्वाभ्यां आगता सोममण्डलात् । तृतीयो यः पुनस्ताभ्यां स भवेच्चाजरामरः ॥ १२० ॥ नाभिमध्ये वसत्येषा भास्करो दहनात्मकः । अमृतात्मा स्थितो नित्यं तालुमध्ये तु चन्द्रमाः ॥ १२१ ॥ वर्षत्यधोमुखं चन्द्रो ग्रसमुर्ध्वमूखो रविः । विज्ञातस्य करणं तत्र येन पीयूषमाप्यते ॥ १२२ ॥ ऊर्ध्वं नाभिरधस्तालु ऊर्ध्वं भानुरधश्शशी । करणं विपरीताख्यं गुरुवाक्येन लभ्यते ॥ १२३ ॥ त्रिधा बद्धो वृषो यत्र रोखीति महान् पुनः अनाहतं च तचक्र योगिनो ह्यतिदुःखभित् ।। १२४ ।। अनाहतमतिक्रम्य नाकृष्य मणिपूरकात् । प्राप्ते प्राणि तथा पड़ योगिनाममृतायते ॥ १२५ ॥ ऊर्ध्वं षोडशपद्मपत्रगलितं प्राणादवाप्तं हठात् । ऊर्खास्ये रसनां नियम्य विवरे शक्तो परां चिन्तयन् ॥१२६ उत्कल्लोलकलाजलं सुविमलं जिह्वाकुलं यः पिबेत् । निर्दोषस्य मृणालकोमलवपुः योगी चिरं जीवति ॥१२७ ।। काकचञ्चपुटास्येन शीतलं सलिलं पिबेत् । मासार्धेन संमोहो सर्वरोगविवर्जितः ॥ १२८ ।। विशुद्धं परमं चक्रं भूत्वा सोमकलात्मकम् । उन्मार्गेनात्र जलं याति वश्चयित्वा मुखे खो ॥ १२९ ॥ प्राणापानविधानेन योगी भवति निर्जरः । रसनातालुमूलेन य प्राणं सततं पिबेत् ॥ १३०॥
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166