Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona
________________
बध्वा सोमकलाजलं सुविमलं कर्णस्थलादूर्ध्वतो । नासान्तो सुचिरेण याति गमनद्वारं ततः सर्वतः ॥ १३१ ॥ ऊर्ध्वास्ये भ्रुवसन्निवेश नयने सिक्ताङ्गगात्रं पिबेत् । एवं यो विजितेन्द्रियमना नवास्ति तस्य क्षयः ॥ १३२ ॥ ऊर्ध्वजिव्हास्ततो भूत्वा सोमपानं करोति यः । मासार्धे नात्र सन्देहो मृत्यु जयतु योगवित् ॥१३३ ॥ सम्पीड्य रसनाग्रेण राजदण्डेबिलं महत् ध्यात्वामृतमयीं देवीं षण्मासेन कविर्भवेत् ॥ १३४ ॥ बध्नमूर्ध्वफलं येन तेन विष्णुं निवारितम् । अजरामरमाप्नोति यथा पञ्चमुखो हरः॥ १३५ ॥ आसनेन समायुक्तः प्राणायामेन च संयुतः । प्रत्याहारेण सम्पन्नो धारणं च समभ्यसेत् ।। १३६ ॥ सर्वद्वाराणि बध्नाति यदृतु विलं धृतम् । न मज्जत्यत्यमृत कापि सम्पन्नाः पञ्चधारणाः ॥ १३७ ॥ चु.........तायद्धि लम्बिकाग्रमनिशं जिह्ना रसस्यन्दिनी। स क्षीराकटुकाथदुग्धसदशा मध्वाज्यतुल्योधवो ॥ १३८ ॥ याधिनां हरणं जरान्तकरणं शास्त्रागमो धीरणम् । तस्य स्यादमृतत्वमष्टगुणकं सिद्धाङ्गनाकर्षणम् ।। १३९ ॥ अमृतं पूर्णदेहस्य योगिनो द्वित्रिवत्सरात् । ऊर्ध्वं प्रवर्तते तस्य अणिमादिगुणोदयः ।। १४० ॥ नित्यं सोमकलापूर्ण देही देहं न मुञ्चति । आसनेन समायुक्तः प्राणायामेन संयुतः ॥ प्रत्याहरणसम्पनः धारणं च समभ्यसेत् ॥१४१॥
Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166