Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona
________________
६४
अधमस्याधमो धर्मः कम्पो भवति मध्यमः । उत्तमाःस्थाणुमानोति ततो वायु निरन्धयेत् ।। ९५॥ बद्धपद्मासनो योगी नमस्कृत्वा गुरुं शिवम् ।। नासाग्रे दृष्टिमादाय प्राणायाम समभ्यसेत् ।। ९६ ॥ द्वाराणां नर(व)कं निरुध्य पवनं जित्वा दृढं धारयेत् । नीत्वाकाशमपानवह्निसहितं शक्या समुच्चालितम् ॥ ९७॥ उर्ध्वमाकृष्य चापानं वायु प्राणेन योजयेत् । अपानेन धत्ते प्राणं सर्वपापैः प्रमुच्यते ॥९८॥ आत्मध्यानयुतं त्वनेन विधिना साभ्यासमूवं सुखम् । यावत्तिष्ठति तावदेव महता सांख्येन संस्तूयते ।। ९९ ।। प्राणायामे भवत्येषा पातके धन पावकः । भवेद्व्याधिमहासेतुः प्रोच्यते योगिभिस्सदा ॥१०० ॥ आसने मरुतो हन्ति प्राणायामेन पातकम् । विकारं मानसं हन्ति प्रत्याहारेण योगवित् ॥१०१।। धारणायां मनोधैर्य ध्यानादैश्वर्यमद्भुतम् । समाधेर्मोक्षमाप्नोति त्यक्त्वा कर्मशुभाशुभम् ।। १०२ ॥ प्राणायामद्विषट्केन प्रत्याहारः स उच्यते । प्रत्याहारद्विषट्केण जायते धारणा शुभा ॥१०३।। धारणा द्वादश प्रोक्तं ध्यानं ध्यानविशारदैः ।। ध्यानद्वादशकेनैव समाधिरभिधीयते ॥१०४॥ यस्समाधिः परं ज्योतिः सर्वाङ्ग विश्वतोमुखम् । तस्माद्दष्टुं क्रिया कार्या यातायातं निपातिते ॥१०५॥ संबध्यासनमूलमंघ्रिघटितं कर्णाक्षिनासापुटद्वाराण्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् ॥१०६॥
Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166