Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 136
________________ ६३ शुद्धीयेत् (द्धमेति) या सर्व नाडिचालं महाजलम् (मलाकुलम् ) । तथै ( ) व जायते योगी समप्राण निरोधने ( प्राणसंग्रहणक्षमः ) 1162 11 बद्धः पद्मासने योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यदाशक्ति पुनः सूर्येण रेचयेत् ॥ ८४ ॥ अमृतद्रवसंकाशं गोक्षीरधवलोपमम् । ध्यात्वा चन्द्रमयं चिम्यं प्राणायामे (मी) सुखो (खी ) भवेत् ।। ८५ ।। प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । कुम्भयित्वा विधानेन पुनश्चन्द्रेण रेचयेत् ।। ८६ ।। प्रज्वल - ज्वलन - ज्वाला - पुंजमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ॥ ८७ ॥ प्राणं चेदिल (ड) यापि प्रवेश्य च तं भूयोन्यया रेचयेत् । पीत्वा पिङ्गलया समीरणचयं बध्वा त्यजेद्वामया ॥ ८८ ॥ सूर्याचन्द्रमसोरनेन विधिना विम्बद्वयं ध्यायतां । शुद्धा नाडिगणा भवन्ति यमिनां मामत्रयादूर्ध्वजः ।। ८९ ।। यथेष्टं धारणा वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ।। ९० ॥ प्राणो देहे स्थितो वायुरपानस्य निबन्धनम् । एकस्य श्वसने मात्र मुद्धाहमने गतिः ।। ९९ ।। रेचकः पूरकचैव कुम्भकः प्रणवात्मकः । प्राणायामो भवेत त्रेधा मात्रा द्वादश संस्कृताः ।। ९२ ॥ मात्रा द्वादशसंयुक्ता दिवाकरनिशाकरौ । दोषजालं विनिघ्नन्तो ज्ञातव्यो योगिभिस्सदा ।। ९३ । अधम द्वादश प्रोक्तो मध्यमो द्विगुणः स्मृतः । उत्तमस्त्रिगुणः प्रोक्तः प्राणायामस्य निर्णयः ।। ९४ ।।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166