________________
६३
शुद्धीयेत् (द्धमेति) या सर्व नाडिचालं महाजलम् (मलाकुलम् ) । तथै ( ) व जायते योगी समप्राण निरोधने ( प्राणसंग्रहणक्षमः )
1162 11
बद्धः पद्मासने योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यदाशक्ति पुनः सूर्येण रेचयेत् ॥ ८४ ॥
अमृतद्रवसंकाशं गोक्षीरधवलोपमम् ।
ध्यात्वा चन्द्रमयं चिम्यं प्राणायामे (मी) सुखो (खी ) भवेत् ।। ८५ ।।
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । कुम्भयित्वा विधानेन पुनश्चन्द्रेण रेचयेत् ।। ८६ ।।
प्रज्वल - ज्वलन - ज्वाला - पुंजमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ॥ ८७ ॥ प्राणं चेदिल (ड) यापि प्रवेश्य च तं भूयोन्यया रेचयेत् । पीत्वा पिङ्गलया समीरणचयं बध्वा त्यजेद्वामया ॥ ८८ ॥
सूर्याचन्द्रमसोरनेन विधिना विम्बद्वयं ध्यायतां । शुद्धा नाडिगणा भवन्ति यमिनां मामत्रयादूर्ध्वजः ।। ८९ ।। यथेष्टं धारणा वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ।। ९० ॥ प्राणो देहे स्थितो वायुरपानस्य निबन्धनम् । एकस्य श्वसने मात्र मुद्धाहमने गतिः ।। ९९ ।।
रेचकः पूरकचैव कुम्भकः प्रणवात्मकः । प्राणायामो भवेत त्रेधा मात्रा द्वादश संस्कृताः ।। ९२ ॥
मात्रा द्वादशसंयुक्ता दिवाकरनिशाकरौ । दोषजालं विनिघ्नन्तो ज्ञातव्यो योगिभिस्सदा ।। ९३ ।
अधम द्वादश प्रोक्तो मध्यमो द्विगुणः स्मृतः । उत्तमस्त्रिगुणः प्रोक्तः प्राणायामस्य निर्णयः ।। ९४ ।।