SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ६४ अधमस्याधमो धर्मः कम्पो भवति मध्यमः । उत्तमाःस्थाणुमानोति ततो वायु निरन्धयेत् ।। ९५॥ बद्धपद्मासनो योगी नमस्कृत्वा गुरुं शिवम् ।। नासाग्रे दृष्टिमादाय प्राणायाम समभ्यसेत् ।। ९६ ॥ द्वाराणां नर(व)कं निरुध्य पवनं जित्वा दृढं धारयेत् । नीत्वाकाशमपानवह्निसहितं शक्या समुच्चालितम् ॥ ९७॥ उर्ध्वमाकृष्य चापानं वायु प्राणेन योजयेत् । अपानेन धत्ते प्राणं सर्वपापैः प्रमुच्यते ॥९८॥ आत्मध्यानयुतं त्वनेन विधिना साभ्यासमूवं सुखम् । यावत्तिष्ठति तावदेव महता सांख्येन संस्तूयते ।। ९९ ।। प्राणायामे भवत्येषा पातके धन पावकः । भवेद्व्याधिमहासेतुः प्रोच्यते योगिभिस्सदा ॥१०० ॥ आसने मरुतो हन्ति प्राणायामेन पातकम् । विकारं मानसं हन्ति प्रत्याहारेण योगवित् ॥१०१।। धारणायां मनोधैर्य ध्यानादैश्वर्यमद्भुतम् । समाधेर्मोक्षमाप्नोति त्यक्त्वा कर्मशुभाशुभम् ।। १०२ ॥ प्राणायामद्विषट्केन प्रत्याहारः स उच्यते । प्रत्याहारद्विषट्केण जायते धारणा शुभा ॥१०३।। धारणा द्वादश प्रोक्तं ध्यानं ध्यानविशारदैः ।। ध्यानद्वादशकेनैव समाधिरभिधीयते ॥१०४॥ यस्समाधिः परं ज्योतिः सर्वाङ्ग विश्वतोमुखम् । तस्माद्दष्टुं क्रिया कार्या यातायातं निपातिते ॥१०५॥ संबध्यासनमूलमंघ्रिघटितं कर्णाक्षिनासापुटद्वाराण्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् ॥१०६॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy