________________
धृत्वा वक्षसि वहिवायुसहितं घूर्णिस्थितं धारयेत् । एवं याति शिवेन तच्च समता योगी चिरं जीवति ॥१०७॥ गगनं पावने प्राप्ते ध्वनिरुद्येत्ततो महान् । गंडादिनादं गम्भीरं सिद्धिस्तस्य न दूरतः ॥१०८॥ प्राणायामेन युक्तेन सर्वपापक्षयो भवेत् । अयुक्ताभ्यासयुक्तेन सर्वरोगसमुद्भवः ॥१०९॥ हिक्कावास्यं तथा कासं शिरःकर्णाक्षिवेदना । भवन्त्यविधिना दोषाः पवनस्य व्यतिक्रमात् ।। ११० ॥ यथा सिंहो गजो व्याघ्रो भवेद्वश शनैः शनैः । अन्यथा हन्ति योक्तारं तथा वायुरसेवितः ॥ १११ ॥ युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बनीयात् एवं सिद्धिं निगच्छति ॥ ११२ ।। चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते ॥ ११३ ॥ यथा तृतीयकालस्थो रविः संहरते प्रभाः। तृतीयाङ्गस्थितो योगी विकारं मानसं तथा ॥ ११४ ।। अङ्गमध्ये यथाङ्गानि कूर्मः संकोचमाचरेत् । योगी प्रत्याहरेचैव इन्द्रियाणि तथात्मनि ॥ ११५ ॥ यं यं श्रृणोति कर्णाभ्यां प्रियं वाप्यथवाऽप्रियम् । तं तमात्मेति संपश्यन् प्रत्याहारस्स उच्यते ॥ ११६ ॥ सुखमुष्णं समं दुःखं वाचा संस्पृश्यते तु यत् । तं तमात्मेति संपश्यन् प्रत्याहारः स उच्यते ॥११७॥ अगन्धमथवा गन्धं यं यं निघेति नासया । तं तमात्मेति संपश्यन् प्रत्याहारः स उच्यते ॥ ११८ ॥