SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ कथितेयं महामुद्रा महासिद्धिकरा नृणाम् । गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् ॥ ७१ ॥ पद्मासनं समारुह्य समकायशिरोदरः । नासाग्रे दृष्टिरेकाकी जीवे ( जपेत् ) दोङ्कारमव्ययम् ॥७२॥ भूर्भुवः स्वरिमे लोकाश्चन्द्रमूर्याग्निदेवताः । त्रयो वर्णा स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ७३ ॥ अकारश्च उकारश्च मकारो बिन्दु-संज्ञकः । त्रयो वर्णाः स्थिता यत्र तत्परं ज्योतिरोमिति ।। ७४ ॥ त्रयः काला स्त्रयो लोकास्त्रयो वेदास्रयो स्वराः । त्रयो देवा स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ७५ ॥ वचसा यजपेद्बीजं वपुषा यत्समभ्यसेत् । मनसा यत्स्मरेन्नित्यं तत्परं ज्योतिरीमिति ॥ ७६ ।। शुचिर्वाप्यशुचिर्वापि जपेदोङ्कारमव्ययम् । न स लिप्यति पापेन पद्मपत्रमिवाम्भसा ।। ७७ ।। चले वाते चलेत्सर्वं निश्चले निश्चलं तथा । योनिस्थानमवाप्नोति ततो वायु निरोधयेत् ॥ ७८ ॥ यावद्वायुः स्थितो देहे तावज्जीवं न मुश्चति । मरण तस्य निष्प्राणः ततो वायु निरोधयेत् ॥७९॥ यावद्धद्धो मरुद्देहे तावञ्चित्तं निरामयम् । यावचक्षु ध्रुवोर्मध्ये तावत्कालभयं कुतः ।।८०॥ अतः मू (का) लभयाब्रह्म प्राणायामपरायणः । योगिनामुत्तमश्चैव ततो वायुं निरोधयेत् ॥ ८१॥ षत्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः । वामदक्षिणभागेन ततः प्राणो निधीयते ॥ ८२॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy