SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ यावद्वद्धा नभो मुद्रा तावद्विन्दुर्न गच्छति । चरितोऽपि यदा विन्दुः संप्राप्तस्य हुताशनम् ॥५९ ॥ ब्रजमूर्ध्वं तथा शक्त्या निबद्धो योनिमुद्रया । सततं द्विविधो विन्दुः पाण्डुरो लोहितस्तथा ॥६॥ पाण्डुरं शुक्लमित्याहुः लोहिताख्यं महारजः सिन्धररजसंकाशं रविस्थाने स्थितं रजः॥६१॥ शक्तिस्थाने स्थितो विन्दुस्तयोरेक्यं सुदुर्लभम् । बिन्दुः शिवोरजश्शक्तिः लम्बे यदारजः (विन्दुरिन्दुः रजो रविः)॥६२।। यदा रजः विन्दोः सहैकत्वं भवेदिव्यं वपुस्तथा । सुप्रभया संगमादेव ताप्यते ह्यमुत्रपदम् । वायुना शक्तिं चालयेदिन्दु विन्दु रजो रविः ॥ ६३ ।। शुक्रं चन्द्रेण संयुक्तं रजस्सूर्येण संयुतम् । द्वयोस्समरसैकत्वं यो जानाति स योगवित् ।। ६४ ॥ शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसना शोषणं चैव महामुद्रां च योऽभ्यसेत् ॥६५॥ हंस (वक्ष) न्यस्त हनुः प्रपीडयत रसाः (सुचिरं ) योनिं च वामांघ्रिणा। हस्ताभ्यां हनुं धारयेत् प्रसारितं पादं तथा दक्षिणम् ॥६६॥ आपूर्य श्वसनेन कुक्षिविवरं बध्वा शनैः रेचयेत् । सर्वव्याधिविनाशिनीति महती मुद्रा नृणां प्रोच्यते ॥ ६७ ॥ सूर्याङ्गेण समभ्यस्य चन्द्राङ्गेणाभ्यसेत्पुनः यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत् ॥ ६८ ॥ न हि पथ्यमपर्थ्य वा रसाः सर्वेऽपि नीरसाः । अपि भुक्तं विषं घोरं पीयूषमिव जीर्यते ॥ ६९ ॥ क्षयकुष्ठगुदावर्तगुल्मशूलज्वरव्यथा । रोगाः सर्वे क्षयं यान्ति महामुद्रां च योऽभ्यसेत् ॥ ७० ॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy