Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 129
________________ ॥ अथ योगमार्तण्डग्रन्थः प्रारम्भः ॥ द्विजचोदितशंखस्य ( शाखस्य ) श्रुतिकल्पतरोः फलं । शमनं भवतापस्य योगं सेवत सत्तमाः ॥ १ ॥ आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ २ ॥ आसनानि च तावन्ति यावन्तो जीवजन्तवः । एतेषां लक्षणं भेदं विजानाति महेश्वरः || ३ || चतुराशीतिलक्षाणामेकमेकमुदाहृतम् । ततः शिवेन पीठानां षोडशानो शतं कृतम् ॥ ४ ॥ आसनेभ्यः समस्तेभ्यः द्वयमेव विशिष्यते । एकं स्वस्थासनं (सिद्धासनं ) प्रोक्तं द्वितीयं कमलासनम् ॥ ५ ॥ योनिस्थानैकमंत्रिमूलघटितं कृत्वा दृढं विन्यसेत् । मेद्रे पादमथैकमेव हृदये कृत्वा समं विग्रहं ॥ ६ ॥ स्थाणुः संयमितेंद्रियोऽचलदृशो सद्ध ( पश्येद्भु) वोरन्तरम् । चैतन् मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ७ ॥ वामोरूपरि दक्षिणं च चरणं विन्यस्य वामं तथा । नाम्यो (दक्षो ) रूपरि पश्चिमेन घटिता धृत्वा कराभ्यां दृढम् ॥ ८ ॥ अङ्गुष्ठे (ष्ठौ ) हृदये निधाय चिबुकं नासाग्रमालोकयेत् । एतद् व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ॥ ९॥ आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थाने तयोर्मध्ये कामरूपं निगद्यते ॥ १० ॥ आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ॥ ११ ॥

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166