________________
॥ अथ योगमार्तण्डग्रन्थः प्रारम्भः ॥
द्विजचोदितशंखस्य ( शाखस्य ) श्रुतिकल्पतरोः फलं । शमनं भवतापस्य योगं सेवत सत्तमाः ॥ १ ॥
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ २ ॥ आसनानि च तावन्ति यावन्तो जीवजन्तवः । एतेषां लक्षणं भेदं विजानाति महेश्वरः || ३ ||
चतुराशीतिलक्षाणामेकमेकमुदाहृतम् । ततः शिवेन पीठानां षोडशानो शतं कृतम् ॥ ४ ॥
आसनेभ्यः समस्तेभ्यः द्वयमेव विशिष्यते । एकं स्वस्थासनं (सिद्धासनं ) प्रोक्तं द्वितीयं कमलासनम् ॥ ५ ॥
योनिस्थानैकमंत्रिमूलघटितं कृत्वा दृढं विन्यसेत् ।
मेद्रे पादमथैकमेव हृदये कृत्वा समं विग्रहं ॥ ६ ॥
स्थाणुः संयमितेंद्रियोऽचलदृशो सद्ध ( पश्येद्भु) वोरन्तरम् । चैतन् मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ७ ॥
वामोरूपरि दक्षिणं च चरणं विन्यस्य वामं तथा । नाम्यो (दक्षो ) रूपरि पश्चिमेन घटिता धृत्वा कराभ्यां दृढम् ॥ ८ ॥
अङ्गुष्ठे (ष्ठौ ) हृदये निधाय चिबुकं नासाग्रमालोकयेत् । एतद् व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ॥ ९॥
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थाने तयोर्मध्ये कामरूपं निगद्यते ॥ १० ॥
आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ॥ ११ ॥