________________
योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ।
मस्तके मणिमद्भिन्नं (वद्विम्बं ) यो जानाति स योगवित् ॥ १२ ॥
तप्तचामीकराभासं तडिल्लेखेव विस्फुरत ।
त्रिकोणं तत्पुरं वह्नेः अथो ( धो) में प्रदेशतः ( मेदात्प्रातिष्ठितम् ) स्व शब्देन भवेत्प्राणः स्वाधिष्ठानमिति स्मृतम् ॥ १३ ॥
स्वाधिष्ठानमिदं चक्रं मेढ़मेव निगद्यते । तन्तुना मणिवत्प्रोक्तं ( तं ) पूर्यते यत्र वायुना || तं नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ॥ १४ ॥ द्वादशारे महाचक्रे पुण्य - पाप - विवर्जिते । तावज्जनो भ्रमत्येव यावत्तत्वं न विन्दति ॥ १५ ॥
ऊध्र्व मेद्रादधो नाभेः कन्दो योऽस्ति (निः ) खगांडवत् । तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥ १६ ॥
तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता । प्रधानाः प्राणवाहिन्यो भवस्तत्र दश स्मृता ॥ १७ ॥ इडा च पिङ्गला चैव सुषुम्ना च तृतीयकम् । गान्धारी हस्तजिहाच पूषा चैव पयस्विनी ।। १८ ॥
अलम्बुषा कुहूचैव शंखिनी दशमी स्मृताः । एवं नाडीमयं चक्रं ज्ञातव्यं योगिभिः सदा ।। १९ ।।
सततं प्राणवाहिन्यश्चन्द्रसूर्याग्निदेवताः । इडा पिङ्गला सुषुम्नेति तिस्रो नाड्य उदीरिताः ॥ २० ॥
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा । सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः ।। २१ ॥
प्राणापानसमानश्च उदानो व्यान एव च । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ २२ ॥