SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ हृदि प्राणो वशी नित्यं अपानो गुदमण्डले । समानो नाभिदेशे तु उदानः कण्ठमध्यगः ॥२३॥ व्यानो व्याप्य शरीरे तु प्रधाना पञ्च वायवः प्राणाद्याः पञ्च विख्याताः नागाद्याः पञ्चवायवः ॥ २४ ॥ नागो गृह्मन्ति पञ्चैताः कूर्म उन्मीलने स्थितः । क्षुधं करोति ककरो देवदत्तो विजृम्भणे ॥ २५ ॥ वृत्तं धनञ्जयः शब्दे क्षणमात्रं न निश्रयेत् । एवं नाडीसहस्रेषु वर्तन्ते जीवरूपिणः ॥ २६ ॥ प्राणापानवशाच्छासो अधश्चोद्धर्वं प्रधावति । वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥ २७ ॥ आक्षिप्तो भुविपाशेन ( भुजदण्डेन) यथा चलति कन्दुकः । प्राणापानसमुत्क्षिसस्तत्त्व (था) जीवो न विश्रमेत् ॥ २८ । रज्जुबंधे यथान्योऽन्यो (श्येनो) गतोऽप्याकृष्यते पुनः । गुणबन्धस्तथा जीवः प्राणापानेन कृष्यते ॥ २९॥ प्राणेनाकृष्यतेऽपानः प्राणोऽपानेन कृष्यते। उर्ध्व चाधःस्थितावेतौ यो जानाति स योगवित् ॥ ३०॥ हंकारेण बहिर्याति सकारेण विशेत्पुनः । हंसो हंसेत्यमुं मंत्रं जीवो जपति सर्वदा ॥३१॥ षट्च्छतान्यहोरात्रं सहस्राण्येकविशतिः । एतत्संख्यान्वितं मंत्रं जीवो जपति सर्वदा ॥३२॥ अजपा नाम गायत्री योगिनां मोक्षदाय (यि) का । अस्य संकल्पमात्रेण नरः पापैः प्रमुच्यते ॥३३॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy