SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ५७ अनया सदृशी विद्या अनया सदृशो जपः । अनया सदृशं पुण्यं न भूतो न भविष्यति ॥ ३४ ॥ कुण्डलिन्या समुत्पन्ना गायत्री प्राणधारिणी । प्रणवाद्यास्तथा (प्राणविद्यामहा ) विद्या यस्तं वेद स वेदवित् ।। ३५ ।। कन्दोर्ध्वं कुण्डली शक्ति: अष्टधा कुण्डलीकृता । ब्रह्मद्वारमुखं नित्यं मुखेन चाध्य ( आछाद्य ) वतिष्ठति ॥ ३६ ॥ योगमार्गेण (येनद्वारेण) गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाभ्युद्यते तत्र प्रसन्ना ( मुखेनाच्छाद्य तद् द्वारं प्रसुप्ता ) परमेश्वरी ।। ३७ ॥ प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा । प्रसुप्ता वायुना सार्धं प्रबोधं यान्ति साग्निना ॥ ३८ ॥ प्रबुद्धावनियोगेन मनसा मरुता सह । मूचीव गुणमादाय व्रजत्युर्ध्वं सुषुम्नया ॥ ३९ ॥ उद्घाटयेत् कवाटं तु यथा कुम्भ (श्चि) कया हठात् । कुण्डलिन्या तथा योगी मोक्षमार्ग प्रभेदयेत् ॥ ४० ॥ कृत्वा संघटितौ करौ दृढतरं बध्वा तु पद्मासनम् । गाढं वक्षसि सन्निधाय चिबुकं ध्यानं ततश्चेतसा ॥ ४१ ॥ पारं वा... समूर्धिन ( वारं वारमपानमुर्ध्वं ) मनिलं प्रोच्चालयन पूरितम् । प्राणं मुञ्चति रोधमेति शनकैः शक्तिप्रबोधान्नरः ॥ ४२ ॥ अङ्गानां मर्दनं कुर्यात्स्वेदवारिनिवारणम् । दृढता लघुता चापि तेन गात्रस्य जायते ।। ४३ ।। कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् । ब्रह्मचारी मिताहारी योगी योगपरायणः ॥ ४४ ॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलीकृता । बन्धनाय च मृढानां योगिनां मोक्षदायिका ।। ४५ ।।
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy