Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 133
________________ ६० महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी सिद्धिभाग भवेत् ॥ ४६ ॥ अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४७ ॥ पाष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमुर्ध्वमाकृष्य मूलबन्ध निगद्यते ॥ ४८ ॥ ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः । ओड्याणं च तथैव स्यात्तच्च बद्धो विधीयते ॥ ४९ ॥ उदरात्पश्चिमे भागे अधो नाभेस्तथा युते । ओड्याणाख्यो स्वयं बद्धो मृत्युमातङ्गकेसरी ॥ ५० ॥ बध्नाति हि शिराजालं अधो नाभि नभोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ।। ५१ ।। जालन्धरे कृते बद्धे कर्ण ( कण्ठ ) संकोचलक्षणे । पीयूष न पतत्यनौ न च वायुः प्रकृप्यति ॥ ५२ ॥ चित्तं चरति खे यस्माज्जिहा चरति गे गता । कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ५३ ॥ भ्रुवोरन्तर्गता दृष्टि मुद्रा भवति खेशरी ॥ ५४ ॥ न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ५५ ॥ तेनैषा खेचरी मुद्रा सर्वलिद्धेर्नमस्कृता । गुदमूल शरीराणां ( बिन्दमूल शरीरं यः ) शिरस्तत्र प्रतिष्ठिसम् ।। ५६ ।। भावयन्ति शरीराणां (शरीरं यः ) आपादतलमस्तकः । खेचरी (र्या) मुद्रितं येन विवरं लम्बिकोर्ध्वतः ॥ ५७ ॥ न तस्य क्षरते विन्दुः कामिन्याश्लेषितस्य च । यावद्विन्दुः स्थितो देही (हे ) तावन्मृत्युभयं कुतः ॥ ५८ ॥

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166