Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 124
________________ निरन्तरकृताभ्यासात्पण्मासात् सिद्धिभाग्भवेत । वलीपलितनिर्मुक्तो जीवेदब्दशतत्रयम् ॥ २८ ॥ अथ हठःपादमूलेन वामेन योनि सम्पीड्य दक्षिणम् । प्रसारित पदे कृत्वा कराभ्यां पूरयेन्मुखे ॥ २९ ॥ कण्ठे बन्धं समारोप्याधाराद्वायुमर्वतः । यथा दण्डाहतस्सपो दण्डाकारः प्रजायते ॥३०॥ ऋजुभूता तदा शक्तिः कुण्डली सहसा भवेत् । तदासी मरणावस्था जायते द्विपुटाश्रिता ॥ ३१ ॥ महारोगा महानशा जीयन्ते मरणादयः । महामुद्रांच तेनैनां वदन्ति विबुधोत्तमाः ।। ३२ ॥ महामुद्राकृता येन साधकाय प्रसिध्यति । कथ्यतेऽसौ महाबन्धो जरामरणनाशकः ॥ ३३ ॥ पूरांयत्वा मुखे वायुं हृदय चु (चि ) बुक कृते । निभृतं योनिमाकुश्चेन्मनो मध्ये नियोजयेत् ॥ ३४ ॥ अयं च सर्वनाडीनामवं गतिविशोधनः । त्रिवेणीसङ्गमं कृत्वा केदारं प्रापयन्मनः ॥ ३५ ॥ रूपलावण्यसम्पन्ना यथा स्त्री पुरुष विना । महामुद्रामहाबन्धो निष्फलो वेधवर्जितौ ॥ ३६ ॥ सव्यं प्रसारितं पादं कराभ्यां धारयेद् दृढम् । आन्दोलनं ततः कूर्याच्छरीरस्य त्रिमार्गतः ॥ ३७॥ पुनरास्फालनं कठ्यां सुस्थिरं कण्ठमुद्रया । वायुना गतिमाहृत्य कृत्वा पूरककुम्भकौ ॥ ३८ ॥

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166