________________
समहस्तयुगो भूत्वा समपादयुगस्तथा । वेधयेत्क्रमयोगेन चतुष्पीठं तु वायुना ॥ ३९ ॥ आफालयेन्महामेरू वायुवज्राग्निकोटिभिः। पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥ ४० ॥ सोमसूर्याग्निसम्बन्धं जानीयादमृताय वै । मृतावस्स्था समुत्पन्ना ततो मृत्युभयं कुतः ॥४१॥ एतत्त्रयं महागुण्यं जरामृत्युविनाशनम् । अष्टधा क्रियते चैतत् यामे यामे दिने दिने ॥४२॥ वहिवृद्धिकरं चैव अणिमादिगुणप्रदम् । पुण्यं सञ्चयसंहारि पापौघभिदुरं सदा ॥४३॥ सम्यगृशिक्षावतामेवं स्वल्पं प्रथमसाधने । वहिस्त्रीपथसेवानामादौ वर्जनमाचरेत् ।। ४४ ।। आरम्भश्च घटश्चैव प्रत्ययश्च तृतीयकः । निष्पत्तिः सर्वयोगेषु योगावस्था चतुर्विधा ॥४५॥ ब्रह्मग्रन्थे भवेद वेधादानन्दा....न्यसम्भवम् । विचित्रक्वणको देहेनाहतः श्रूयते ध्वनिः ॥४६॥ दिव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् । सम्पूर्णहृदयश्शूर आरम्भे योगिनो भवेत् ॥४७॥ द्वितीयायां घटीकृत्य वायुभवति मध्यगः । दृढासनो भवेद्योगी ज्ञानादेव समप्रभः ॥४८॥ विष्णुग्रन्थेस्तथा वेधात् परमानन्दसूचकः । अतिशून्ये विमर्दश्च मेरीशब्दस्तथा भवेत् ॥ ४९।। तृतीयायां ततो भित्वा विपाको ( विहायो) मईलध्वनिः । महाशून्यं तदा जातं सर्वसन्धि( सद्धि समाश्रयम् ॥५०॥