________________
चित्तानन्दं ततो जित्वा सहजानन्दसम्भवः । दोषमृत्यु-जरा-दुःख-क्षुधा-निद्राविवर्जितः ॥५१॥ रुद्रग्रन्थि ततो भित्वा सत्वपीठगतोऽनिलः । निष्पत्तौ वैणवशब्दः क्वणन्वीत (निव ) क्वणो भवेत् ।। ५२॥ एकीभूतं तदा चित्तं राजयोगाभिधानकम् सृष्टिसंहारकर्ताऽसौ योगीश्वरसमोभवेत् ॥५३॥ न नादो न च बिन्दुश्च न चेतो नाप्यचेतनः । नाभ्यासदुस्तरं किश्चित् राजयोगो निगद्यते ॥ ५४॥ लीनं यत्र चराचरं लयवशात् तल्लिङ्गमित्युच्यते । सा शक्तिर्यदचिन्त्यरूपगहनाल्लोकत्रयोद्भासिनी ॥ तद्ध्यानं यदशेषवस्तुविषयव्यापारहीनं मनः । तत्क्षात्र यदसीमकालपटलध्यानासनं हेलया ॥५५॥ पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः। काठिन्यात्पृथिवी ज्ञेया पानीयं यदुवाकृतिः ॥ ५६ ॥ दीपनं तु भवेत्तेजः स्पर्शे वायोस्तथा भवेत् । आकाशे चेतनं सर्वं ज्ञातव्यं योगमिच्छता ।। ५७ ॥ षट्च्छतान्यधिकान्यत्र सहस्राण्येकविशतिः । अहोरात्रं वहेच्छवासो वायुमण्डलरेचनात् ॥ ५८ ॥ तत्पृथ्वीमण्डले क्षीणे बलिरायाति देहिनाम् । तोये क्षीणे तृणानीव चिकुराः पाण्डुराः क्रमात् ॥ ५९ ।। तेजाक्षीणे क्षुधाकान्तिनश्यते मारुते श्लथे । वेपथुश्च भवेनित्यं साहसेनैव जीवति ॥ ६०॥ इत्यंभूतक्षयान्मृत्युजीवितं भूतधारणात् । प...शेवर्षशते लक्ष्येनान्यथा मरणं भवेत् ॥ ६१ ॥