________________
५४
यामाष्टककृताभ्यासात्सर्वाञ्छ्वासान् ग्रसत्यसौ । स पोडशकलोपेतश्शशी तिष्ठति पूरकान् (त्) ।। ६२ ॥
निस्तरङ्गे स्थिरे चित्ते वायुर्भवति मध्यगः । रविरूर्ध्वपदं याति विन्दुना याति वश्यताम् ।। ६३ ।।
आनन्दपूरितो योगी जायते शिवसन्निभः । तदेश्वरगुणास्सर्वे दृश्यन्ते दशमासतः ।। ६४ ।।
इत्यमरौघसंसिद्ध गोरक्षेण प्रकाशितः । लयाद्युपायकौशल्यप्रबोधप्रत्ययात्मकः ।। ६५ ।।
सर्वचिन्तां परित्यज्य दिनमेकं परीक्ष्यताम् । यदि तत्प्रत्ययो नास्ति तदा मे तु मृषा वचः ।। ६६ ॥
रुमो (?) मरीचि खद्योत दीपज्वालेन्दु भास्कराः । aat कला महावि विश्वविम्बं प्रकाशते ।। ६७ ॥ प्रबोधं यो न जानाति सोऽमरौघं न विन्दति । समीभावे समुत्पन्ने चित्ते द्वैतविवर्जिते ।। ६८ ।। अहं ममेत्यपीत्युक्त्वा सोऽमरौघं विचिन्तयेत् । चित्तं जीवितमित्याहुरचित्तं मरणं विदुः ।। ६९ ।। चित्ताचित्ते समीभूते जीवन्मुक्तिरिहोच्यते । यत्र स्वभावसद्भावो भाषितुं नैव शक्यते ॥ ७० ॥
न जीवति ततः कोऽपि न च कोऽपि मरिष्यति । राजयोगं पदं प्राप्य सर्वसत्ववशङ्करम् ॥ ७१ ॥ सर्वं कुर्यान्न कुर्याद्वा यथारुचि विचेष्टितम् । नमः कोऽपि गुहासु दिव्यवसनः कौपीनवासाः कचित् । दिव्यस्त्रीसुरतान्वितोऽपि कुहचित्स ब्रह्मचारी क्वचित् ।