Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona
________________
॥ योगविषयः॥ गुरुश्च गुरुपुत्रश्च ये चान्ये गुरुबान्धवाः ॥१॥ अन्येषांच क्रमाज्ज्येष्टास्तेषां पादौ नमाम्यहम् । यादृशी भावनातीतं तं गुरुं प्रणमाम्यहम् । भ्रान्तश्च भ्रमते लोको निर्धान्तः कृतनिश्चयः ॥२॥ तस्य सिध्यन्ति पुरुषा आदिनाथे व्यवस्थिताः । कुलजातिसमायुक्तः सुचरित्रगुणान्वितः ॥३॥ गुरुभक्तियुतो धीमान् स शिष्य इति कथ्यते । आकुलेनादिनाथेन केजापूपीनवासिना ॥४॥ कृपयेव परं तत्त्वं मीननाथोऽपि बोधतः । मीननाथोऽपि सच्छिष्यं प्रत्युवाच समाहितः ॥५॥ त्वं गुरुस्त्वञ्च शिष्यश्च शिष्यस्य च गुरोरपि । नानयोरपि भेदोव समसिद्धिः प्रजायते ॥६॥ उमाशङ्करपुत्रोऽहं मीननाथो मुनीश्वरः । कथयामि परं तत्त्वं कुलाकुलविबोधकम् ॥७॥ आधारः स्वाधिष्ठानश्च मणिपूरमनाहतम् । विशुद्धिराज्ञा कौलानि षट चक्राणि शुभानि च ॥८॥ आधारश्च गुदे तस्थौ स्वाधिष्ठानश्च लिङ्गके । मणिपूरं नाभिगतं हृदये चाप्यनाहतम् ॥९॥ विशुद्धिः कण्ठदेशे च आज्ञाचक्र ध्रुवोर्मुखम् । चक्रभेदमिति ज्ञात्वा चक्रातीतं निरञ्जनम् ॥१०॥ इडा वहति वामे च पिङ्गला वहति दक्षिणे । इडापिङ्गलयोर्मध्ये सुषुम्ना सुखरूपिणी ॥११॥
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166