Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona
________________
एतच्छास्त्रं महादिव्यं रहस्यं पारमेश्वरम् । सिद्धान्तं सर्वसारस्वं नानासंकेतनिर्णयम् ।। ९९ ॥ सिद्धानां प्रकटं सिद्ध सद्यःप्रत्ययकारकम् । आत्मानंदकरं नित्यं सर्वसंदेहनाशनम् ॥१०॥ न देयं परशिष्येभ्यः नान्येषां सन्निधौ पठेत् । न स्नेहान बलाल्लोभान्न मोहान्नानृन्ताच्छलात् ।। १०१॥ न मैत्रीभावनाद्दानान्न सौन्दर्यान्न चासनात् । पुत्रस्यापि न दातव्यं गुरुशिष्यक्रम विना ।।१०२॥ सत्यवन्तो दयाचित्ताः दृढभक्ताः सदाचलाः निस्तरङ्गाः महाशान्ताः सदाज्ञानप्रबोधकाः ॥१०३।। भयदेन्यधृणालज्जातृष्णाशाशोकवर्जिताः । आलस्यमदमात्सर्यदम्भमायाछलोज्झिताः ॥१०४॥ अहङ्कारमहामोहरागद्वेषपराङ्मुखाः क्रोधेच्छाकामुकाम्याभ्रान्तितालोभवर्जिताः ॥ १०५ ।। निस्पृहा निर्मला धीराः सदाद्वैतपदे रताः। तेभ्यो देयं प्रयत्नेन धूर्तानां गोपयेत् सदा ।। १०६ ।। निन्दका ये दुराचाराश्चुम्बकाः गुरुतल्पगाः । नास्तिका ये शठाः क्रूरा विद्यावादरतास्तथा ॥ १०७॥ योगाचारपरिभ्रष्टाः निद्राकलहयोः प्रियाः । स्वस्वकार्ये परानिष्ठाः गुरुकार्येषु निस्पृहाः ॥१०८ ॥ एतान् विवर्जयेद् दूरे शिष्यत्वेन गतानपि ॥ १०९ ॥ सच्छास्त्रं सिद्धमार्गश्च सिद्धसिद्धान्तपद्धतिम् । न देयं सर्वदा तेभ्यो यदीच्छेचिरजीवनम् ।। ११० ॥ ३५- कारणम् (तं.).
Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166