SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ एतच्छास्त्रं महादिव्यं रहस्यं पारमेश्वरम् । सिद्धान्तं सर्वसारस्वं नानासंकेतनिर्णयम् ।। ९९ ॥ सिद्धानां प्रकटं सिद्ध सद्यःप्रत्ययकारकम् । आत्मानंदकरं नित्यं सर्वसंदेहनाशनम् ॥१०॥ न देयं परशिष्येभ्यः नान्येषां सन्निधौ पठेत् । न स्नेहान बलाल्लोभान्न मोहान्नानृन्ताच्छलात् ।। १०१॥ न मैत्रीभावनाद्दानान्न सौन्दर्यान्न चासनात् । पुत्रस्यापि न दातव्यं गुरुशिष्यक्रम विना ।।१०२॥ सत्यवन्तो दयाचित्ताः दृढभक्ताः सदाचलाः निस्तरङ्गाः महाशान्ताः सदाज्ञानप्रबोधकाः ॥१०३।। भयदेन्यधृणालज्जातृष्णाशाशोकवर्जिताः । आलस्यमदमात्सर्यदम्भमायाछलोज्झिताः ॥१०४॥ अहङ्कारमहामोहरागद्वेषपराङ्मुखाः क्रोधेच्छाकामुकाम्याभ्रान्तितालोभवर्जिताः ॥ १०५ ।। निस्पृहा निर्मला धीराः सदाद्वैतपदे रताः। तेभ्यो देयं प्रयत्नेन धूर्तानां गोपयेत् सदा ।। १०६ ।। निन्दका ये दुराचाराश्चुम्बकाः गुरुतल्पगाः । नास्तिका ये शठाः क्रूरा विद्यावादरतास्तथा ॥ १०७॥ योगाचारपरिभ्रष्टाः निद्राकलहयोः प्रियाः । स्वस्वकार्ये परानिष्ठाः गुरुकार्येषु निस्पृहाः ॥१०८ ॥ एतान् विवर्जयेद् दूरे शिष्यत्वेन गतानपि ॥ १०९ ॥ सच्छास्त्रं सिद्धमार्गश्च सिद्धसिद्धान्तपद्धतिम् । न देयं सर्वदा तेभ्यो यदीच्छेचिरजीवनम् ।। ११० ॥ ३५- कारणम् (तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy