SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ કર बालोन्मत्तपिशाचमूकजडवत् चेष्टाश्च नानाविधा। ये कुर्वन्ति पदं विना मतिबलाद्मष्टा विमुह्यन्ति ते ।। ९२ ।। कथां दर्शनमद्भुतं बहुविध भिक्षाटनं नाटकम् । भस्मोडलनमङ्गं ककर्शतरं कृत्वाथ वर्ष चरेत् ।। क्षेत्र क्षेत्रमटन्ति दुर्गमतरं छित्वाथ सर्वेन्द्रियम् । नो विन्दन्ति परं पदं गुरुमुखाद्गर्वेण कष्टाश्च ते ॥ ९३ ॥ वाणीं ये च चतुर्विधां स्वरचितां सिद्धेश्च वा निर्मितां । गायत्रीचतुराश्च पाठनिरता विद्याविवादे रताः ॥ नो विन्दन्ति तदर्थमात्मसदृशं खिद्यन्ति मोहाद्वलात् । दण्डैः कर्तरिशूलचक्रलगुडैभण्डाश्च दुष्टाश्चये ।। ९१ ।। एवं शून्यादिशन्यं परमपरपदं पञ्चशून्यादिशून्यम् । व्योमातीतं ह्यनाद्यं निजकुलमकुलं चाद्भुतं विश्वरूपम् ।। अव्यक्तं चान्तरालं निरुदयमपरं भासनिनाममेक्यम् । वाङ्मात्राद्भासयन्तो बहुविधमनसो व्याकुला भ्रामितास्त ।। ९४ ॥ आज्ञासिद्धिकरं सदा समुचितं सम्पूर्णमाभासकम् । पिण्डे सर्वगतं विधानममलं सिद्धान्तसारं वरम् ।। भ्रान्तर्निर्हरणं सुखातिसुखदं कालान्तकं शाश्वतम् । तन्नित्यं कलनोद्गतं गुरुमयं ज्ञेयं निरुत्थं पदम् ॥ ९५ ।। आत्मेति परमात्मेति जीवात्मेति विचारणे । त्रयाणामेक्यसंभूतिः आदेश इति कीर्तितः ॥९६ ॥ आदेश इति सद्वाणी सर्वद्वन्द्वक्षयापहाम् । यो योगिनं प्रतिवदेत् स यात्यात्मानमैश्वरम् ॥९७॥ आशादहनं भसितं कुण्डलयुगलं विचारसन्तोषः । कौपीनं स्थिरचित्तं खर्परमाकाशमात्मनो भजनम् ॥९८॥ ३१ - त्वरेत् (ह.). ३२ - शून्यातिशून्य (तं.). ३३ - मृत्युहरं (तं.). ३४. कलज्जितं (ह.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy