________________
गोपनीयं प्रयत्नेन तस्करेभ्योधनं यथा । तेषां यो बोधयेत मोहादपरीक्षितमन्दधीः ।। १११ ॥ न हि मुक्तिर्भवेत्तस्य सदा दुःखेन सीदतः । खेचरी भूचरी योगी शाकिनी च निशाचरी ।। ११२ ।। एतेषामद्भुतं शापः सिद्धानां भैरवस्य च । मस्तके तस्य पतति तस्माद्यत्नेन रक्षयेत् ॥ ११३ ॥ गुरुपादाम्बुजस्थाय परीक्ष्य प्रवदेत्सदा । कुतो दुःखं च भीतिश्च तत्त्वज्ञस्य महात्मनः ।। ११४ ॥ कृपयैव प्रदातव्यं सम्प्रदायप्रवृत्तये । सम्प्रदायप्रवृत्तिर्हि सर्वेषां सम्मता यतः ।। ११५ ।।
मायाशंकरनाथाय नत्वा सिद्धान्तपद्धतिम् ।
लिखित्वा यः पठेद्भक्त्या स याति परमां गतिम् ।। ११६ ।। विधात्वत्यर्थनिच (ल)यं भक्तानुग्रहमूर्तिमत् ।
स्मरानन्दपरं चेतो गणप (य) त्यभिधं महः ।। ११७ ॥ ॥ इति श्री गोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ अवधूत - योगिलक्षणं नाम षष्ठोपदेशः ।। ६ ।।
३६ - उपरोक्ष तु ( बो) ३७ - यआश्रित्य ( यो. ).