SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ॥ योगविषयः॥ गुरुश्च गुरुपुत्रश्च ये चान्ये गुरुबान्धवाः ॥१॥ अन्येषांच क्रमाज्ज्येष्टास्तेषां पादौ नमाम्यहम् । यादृशी भावनातीतं तं गुरुं प्रणमाम्यहम् । भ्रान्तश्च भ्रमते लोको निर्धान्तः कृतनिश्चयः ॥२॥ तस्य सिध्यन्ति पुरुषा आदिनाथे व्यवस्थिताः । कुलजातिसमायुक्तः सुचरित्रगुणान्वितः ॥३॥ गुरुभक्तियुतो धीमान् स शिष्य इति कथ्यते । आकुलेनादिनाथेन केजापूपीनवासिना ॥४॥ कृपयेव परं तत्त्वं मीननाथोऽपि बोधतः । मीननाथोऽपि सच्छिष्यं प्रत्युवाच समाहितः ॥५॥ त्वं गुरुस्त्वञ्च शिष्यश्च शिष्यस्य च गुरोरपि । नानयोरपि भेदोव समसिद्धिः प्रजायते ॥६॥ उमाशङ्करपुत्रोऽहं मीननाथो मुनीश्वरः । कथयामि परं तत्त्वं कुलाकुलविबोधकम् ॥७॥ आधारः स्वाधिष्ठानश्च मणिपूरमनाहतम् । विशुद्धिराज्ञा कौलानि षट चक्राणि शुभानि च ॥८॥ आधारश्च गुदे तस्थौ स्वाधिष्ठानश्च लिङ्गके । मणिपूरं नाभिगतं हृदये चाप्यनाहतम् ॥९॥ विशुद्धिः कण्ठदेशे च आज्ञाचक्र ध्रुवोर्मुखम् । चक्रभेदमिति ज्ञात्वा चक्रातीतं निरञ्जनम् ॥१०॥ इडा वहति वामे च पिङ्गला वहति दक्षिणे । इडापिङ्गलयोर्मध्ये सुषुम्ना सुखरूपिणी ॥११॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy