________________
४६
आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे । द्वे पत्र पोडशारे द्विदशदशदले द्वादशार्थे चतुष्के नासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणाम् । क्षं तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ १२ प्राणोऽपानः समानश्च उड़ानो व्यान एव च । पञ्चकर्मेन्दिययुक्ताः क्रियाशक्तिसमुद्यताः ।। १३ ।। नागः कूर्मश्च कुकरो देवदत्तो धनञ्जयः । पञ्चज्ञानेन्द्रियैयुक्ताः बुद्धिशक्तिसमन्विताः ।। १४ ।। पावकश्शक्तिमध्यस्थो नाभिचक्रे रविः स्थितः । बन्धमुद्रा कृतास्सर्वे नासाग्रे तु सुलोचनम् ।। १५ । अकारो वन्हिदेशे च उकारो हृदि संस्थितः मकारथः भ्रुवोर्मध्ये वचनाच्च निबोधयेत् ।। १६ ।।
ब्रह्मग्रन्थिरधष्कारे विष्णुग्रन्थि हृदि स्थितः । रुद्रग्रन्यिर्भुवोर्मध्ये विमुच्यन्ते त्रयस्तथा ॥ १७ ॥
अकारो ब्रह्म इत्याहुः उकारो विष्णुरुच्यते । मकारे च शिवं साक्षाच्छान्तेरशान्ततरं परम् ।। १८ ।। कण्ठसंकोचनं कृत्वा द्वे नाड्यौ स्तम्भयेद् दृढम् । रसनापीड्यमानास्तु षोडशचोर्ध्वगामिनी ।। १९ ।। त्रिकूटं विहठाचैव गोल्हाटं शिखरं तथा । त्रिशिखं वज्रमोङ्कार मूर्ध्वनाखं भ्रुवोर्मुखम् ।। २० ।। आकुञ्चयेद्रविञ्चैव पश्चान्नाडी प्रवर्तते । भेदे त्रिसंघट्टमुभयोश्शशिदर्शनम् ॥ २१ ॥
प्रणवा गुदनाला च नलिनी सर्पिणी तथा । वङ्कनालि क्षया शौरी कुण्डली कुण्डलाः स्मृताः ॥ २२ ।