SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कुण्डली (ली) चालयेत् प्राणो (णान् ) भेदिते शशिमण्डले । सिध्यन्ति वज्रगुम्भानि नव द्वाराणि बन्धयेत् ॥ २३॥ सुमनः पावनारूढः स गाढं निर्गुणस्तथा । ब्रह्मस्थाननिनादेन शंखिन्यामृतवर्पिणी ॥२४॥ षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् । सर्वेषां स्नापनं देहे क्रियते देवतार्चनम् ॥२५॥ चन्द्रामृतेन चिद्रपमीश्वरं स्नाप्य भक्तितः । मनःपुष्पं तथा देयमर्चयेत्परमं शिवम् ॥२६॥ आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् । दृश्यते देहरूपेण सर्वव्यापी निरञ्जनः ॥२७॥ हंस हंस पदे वाक्यं प्राणिनां देहमाश्रितः । सम्प्राणापानयोग्रन्थिरूपे...त्यभिधीयते ॥२८॥ सहस्रमेकञ्च युतं षट्छतं चैव सर्वदा । उच्चारपदतो हंसः सोऽहमित्यभिधीयते ॥२९॥ पूर्वभागे मथो लिङ्गं शंखिन्यां चैव पश्चिमम् । ज्योतिर्लिङ्ग भ्रुवोर्मध्ये रक्तशुक्लात्मकं शिवम् ॥३०॥ पूर्वपश्चिमदिग्भागे वज्रदण्डे व्यवस्थिते । द्वौ षष्टिभोगिनी स्थान पशाल्लिङ्गं प्रकाशयेत् ॥ ३१ ॥ शीताशीतं परं स्थानं मेदोमज्जामिपूरितम् । स्रवति ब्रह्मणः स्थानात् सिञ्चते भुवनत्रयम् ॥३२॥ सर्वव्याधिक्रियाकर्म-वातपित्तसमन्वितम् । दशाष्टदोषरहितं मीननाथेन कथ्यते ॥३३॥ ॥ इति मत्स्येन्द्रनाथविरचितं भक्तिसं (?) सम्पूर्णम् ।।
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy