Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 114
________________ ४१ नीत्वा पूर्णगिरिं निपातनमधः कुर्वन्ति तस्याश्च ये । खण्डज्ञानरतास्तु ते निजपदं तेषां हि दूरं पदम् ॥८६॥ बन्धं भेदं च मुद्रां गल-बिल-चिबुका-बद्धमार्गेषु वन्हिम् ! चन्द्राको सामरम्यं शमदम नियमानादबिन्दु कलान्ते ।। ये नित्यं मेलयन्ते ह्यनुभवमनसाप्युन्मनीयोगयुक्ताः । ते लोकान् भ्रामयन्ती निजमुखविमुखाः कर्मदुःश्वाध्वाजः ।। ८७॥ अष्टाङ्ग योगमार्ग कुलपुरुषमतं षण्मुखीचक्रभेदम् । ऊोधो वायुमध्ये रविकिरणनिभं सर्वतो व्याप्तिमारम् ।। दृष्ट्या ये वीक्षयन्ते तग्लजलसमं नीलवर्ण नभो वा । एवं ये भावयन्ते निगदितमतयस्तेऽपि हा कष्टभाजः ॥ ८८ ।। आदौ धारण शंग्व धारणमतः कृत्वा महाधारणम् । सम्पूर्ण प्रतिधारणं विधिबलात् दृष्टिं तथा निर्मलां ॥ अर्थोली बहुलीह दृष्टासनमथो घण्टी वमन्तोलिका । ये कुर्वन्ति च कारयन्ति च सदा भ्राम्यन्ति खिद्यन्ति ते ।। ८९ ।। शंखक्षालनमन्तरं ग्मनया ताल्बोष्टनासारसम् । वान्तेरुल्लैंटनं कवोटममरीपानं तथा खपरी ॥ वीर्यद्रावितमात्मजं पुनरहो ग्रासं प्रपञ्च वा । ये कुर्वति जडास्तु ते नहि फलं तेषां तु सिद्धान्तजम् ।। ९० ।। घण्टाकादल-कालमर्दल-महा-भेरीनिनादं यदा । सम्यङ् नादमनाहतध्वनिमयं शृण्वन्ति चैतादृशम् ।। पिण्डे सर्वगतं निरन्तरतया ब्रह्माण्डमध्येऽपि वा। तेषां सिद्धपदं ततः समुचितं तत्वं परं लभ्यते ॥ ९१ ॥ वैराग्यात्तृणशाकपल्लवजलं कन्दं फलं मूलकम् । भुक्त्वा ये वनवासमेव भजन्ते चान्ये च देशान्तरम् ।। २७-मधो (तं.), वासनमथो ( ह.). २८ - रुकुठनम् (तं.). २९-कपाट (ह.). ३०-प्रासप्रदं पञ्चधा (तं.).

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166