Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 112
________________ परपक्षं निरासं करोतिः वेदान्ती बहुतर्ककर्कशमतिर्ग्रस्तः परं मायया । भाट्टाः कर्मफलाकुला हतधियो द्वैतेन वैशेषिकाः ।। अन्ये भेदरताः विवादविकला स्ते तत्त्वतोवश्चिताः ( सत्तत्त्वतोवञ्चिताः )। तस्मात्सिद्धमतं स्वभावसमय धीरः सदा संश्रयेत् ॥७६ ॥ सांख्या वैष्णवा वैदिका विधिपराः संन्यासिनस्तापसाः । सोरा वीरपराः प्रपञ्चनिरता बौद्धा जिनाः श्रावकाः ।। एते कष्टरता वृथापथगतास्ते सत्तत्त्वतो वञ्चिताः । तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७७॥ आचार्या बहुदीक्षिता हुतिरता ननवतास्तापसाः । नानातीर्थनिषेवका जपपरा मौनस्थिता नित्यशः ॥ एते ते खलु दुःखभारनिरतास्ते सत्तत्त्वतो वञ्चिताः । तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ।। ७८ ।। आदौ रेचक-पूरक-कुम्भक-विधौ नाडीपथा शोधितम् । कृत्वा हृत्कमलोदरे तु सहसा चित्तं महामूछितम् ।। पश्चादव्ययमक्षरं परकुले चोंकारदीपाङ्करे । ये पश्यन्ति समाहितेन मनसा तेषां न नित्यं पदम् । तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७९॥ चार्वाकाश्चतुराश्च तर्कनिपुणा देहात्मवादे रताः । ते सर्वे तरन्ति दुःसहतरं ये ते परं सात्विकाः॥ ते सर्वे प्रभवन्ति ये च यर्वनाः पापे रता निर्दयाः। तेषामैहिकमल्पमेव फलदं तत्त्वं न मोक्षपदम् ॥८॥ __ १६-कमयं (तं.). १७-- शैवाः पाशुपता महाव्रतधरा कालामुखा जंगमाः । शाक्ताः कौल कुला कुलार्चनरता-कापालिकाः शाम्भवाः । एते कृत्रिममंत्रतंत्रनिरतास्ते तत्त्वतो वश्चिताः तस्मात सिद्धमतं (तं.). १८-रजसा (तं.). १९-मोक्षफलम् (तं.).

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166