________________
मेरुपर्वतो मेरुखण्डे वसति कैलासो ब्रह्मकपाटे वसति हिमालयः पृष्ठे मलयो वामकन्धरे मन्दरो दक्षिणकन्धरे विन्थ्यो दक्षिणकणे मैनाक: वामकर्णे श्री-पर्वतो ललाटे एवमष्ट कुलपर्वताः अन्ये उपपर्वताः सर्वाङ्गुलिषु वसन्ति ॥१०॥ पीनसा गंगा यमुना चन्द्रभागा सरस्वती । पिपासा शतरुद्रा च श्रीरात्रिश्चैव नर्मदा एवं नव नद्यो नवनाडीसु वसन्ति ॥११॥ अन्या उपनद्यः कुल्योपकुल्याः द्विसप्तति-सहस्त्र-नाडीसु वसन्ति ।। १२ ।। सप्तविंशति नक्षत्राणि द्वादश राशयः नव ग्रहाः पञ्चदश तिथयः एते अन्तर्वलये द्विसप्तति सहस्र-स्वहस्त-कोष्ठेषु वसन्ति । अनेकतारामण्डलं ऊर्मिषु वसन्ति । यात्रंशत्-कोटिदेवता बाहुरोमकूपेषु वसन्ति । अनेकपीठोपपीठकाः रोमकूपेषु वसन्ति । देवदानव-यक्ष-राक्षस-पिशाच-भूतप्रेताः अस्थिसन्धिषु वसन्ति । कुलनागा वक्षसि वसन्ति । अन्ये सनकादिमुनिसंधाः कक्षरोमकूपेषु वसन्ति । अन्ये पर्वता उदर-लोमसु वसन्ति । गन्धर्व-किन्नरकिंपुरुषा अप्सरसो गणा उदरे वसन्ति । अन्याः खेचरी-लीलामातरः शक्तयः उग्रदेवता वायुवेगे वसन्ति । अनेकमेघाः अश्रुपाते वसन्ति । अनेकतीर्थानि मर्मस्थाने वसन्ति । अनन्तसिद्धाः मतिप्रकाशे वसन्ति । चन्द्रमूर्यो नेत्रद्वये वसतः । अनेक वृक्षलतागुल्मतृणानि जंघारोमककूपस्थाने वसन्ति । अनेककृमिकीटपतङ्गाः पुरीषे वसन्ति ॥१३॥ यत्सुखं तत्स्वर्ग यद्दःखं तन्नरकं यत्कर्म तद्वंधनं यनिर्विकल्पं तन्मुक्तिः स्वस्वरूपदशायां निद्रादौ स्वात्मजागरः शान्तिर्भवति । एवं सर्वदेहेषु विश्वस्वरूपः परमेश्वरः
६-दण्डे (इ. का.). ७-पीतसा (तं.). ८-वितस्ता (का.).