SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १५ हन्तास्वरूपी तिष्ठति । शृङ्गारे कुललोकस्तत्र कुलेश्वरो देवता पिण्डमध्ये आनंदस्वरूपी तिष्टति | शंखमध्ये नलिनीस्थाने अकुलेश्वरो देवता पिण्डमध्ये निरभिमानावस्था तिष्ठति । ब्रह्मरन्ध्रे परब्रह्म - लोकस्तत्र परब्रह्म देवता पिण्डमध्ये परिपूर्णदशा तिष्ठति । ऊर्ध्वकमले परापर - लोकस्तत्र परमेश्वरो देवता पिण्डमध्ये परापरभावस्तिष्ठति । त्रिकूटस्थाने शक्तिलोकस्तत्र पराशक्तिर्देवता सर्वासां सर्व कर्तृत्वावस्था तिष्ठति । एवं पिण्डमध्ये सप्तपातालसहितैकविंशतिब्रह्माण्ड - स्थान- विचारः ।। ५ ।। सदाचारतत्वे ब्राह्मणाः वसन्ति शौर्ये क्षत्रियाः व्यवसाये वेश्याः सेवाभावे शूद्राश्रतुषष्टिकलास्वपि चतुःषष्टिवर्णाः ॥ ६ ॥ अथसप्त समुद्राः सप्त द्वीपाः कथ्यन्ते । मज्जायां जम्बूद्वीपः अस्थिषु शक्तिद्वीपः शिरासु सूक्ष्मद्वीपः त्वक्षु क्रौञ्चद्वीपः रोमसु गोमयद्वीपः नखेषु श्वेतद्वीप : मांसे ( अस्थिनि) प्लक्षद्वीपः एवं सप्तद्वीपाः ॥ ७ ॥ मुत्रे क्षार - समुद्रः लालायां क्षीर-समुद्रः कफे दधिसमुद्रः मेदसि घृत- समुद्रः वसायां मधु-समुद्रः रक्ते इक्षु- समुद्रः शुक्रेऽमृतसमुद्रः एवं सप्तसमुद्राः ॥ ८ ॥ नवखण्डाः नव द्वारेषु वसन्ति । भारतखण्डः काश्मीरखण्ड: करैर्परंखण्डः श्रीखण्डः शंखखण्डः एकपादखण्डः गान्धारखण्डः कैवर्तकखण्डः महामेरुखण्डः एवं नवखण्डाः ॥ ९ ॥ २ - नास्ति वाक्यमिदम् (यो. तं). ३ - शाकद्वीपः (ह.), शाल्मलिद्वीपः (का.), मस्तिष्के शाकद्वीपः (तं). ४- भाई खण्डा ( यो. ). ५ - खर्वखण्डः ( तं.), करखण्ड: (ह.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy