________________
तृतीयोपदेशः
अथ पिण्ड -संवित्तिः कथ्यते । पिण्डमध्ये चराचरौ यो जानाति स योगी पिण्ड -संवित्तिर्भवति ॥१॥ कूर्मः पादतले वसति पातालं पादाङ्गुष्ठे तलातलमङ्गुष्ठाग्रे महातलं पृष्ठे रसातलं गुल्फे सुतलं जायां वितलं जावोः अतलमुोरेवं सप्तपातालं रुद्रदेवताधिपत्ये तिष्ठति पिण्डमध्ये क्रोधरूपी भावः स एव कालानिरुद्रः ॥२॥ भूलोक गुह्यस्थाने भुवोकं लिङ्गस्थाने स्वर्लोकं नाभिस्थाने एवं लोकत्रये इन्द्रो देवता पिण्डमध्ये सर्वेन्द्रियनियामकः स एवेन्द्रः ॥३॥ दण्डाङ्करे महर्लोकः दण्डकुहरे जनो लोकः दण्डनाले तपो लोकः मूलकमले सत्यलोकः एवं लोकचतुष्टये ब्रह्मादिदेवता पिण्डमध्ये अनेकमानाभिमानस्वरूपी तिष्ठति ॥४॥ विष्णुलोकः कुक्षौ तिष्ठति तत्र विष्णुर्देवता पिण्डमध्येऽनेकव्यापारकारको भवति । हृदये रुद्रलोकः तत्र रुद्रो देवता पिण्डमध्ये उग्रस्वरूपी तिष्ठति । वक्षःस्थले ईश्वरलोकः तत्र ईश्वरो देवता पिण्डमध्ये तृप्तिस्वरूपी तिष्ठति । कण्ठमध्ये नीलकण्ठो लोकस्तत्र नीलकण्ठो देवता पिण्डमध्ये नित्यं तिष्ठति । तालुद्वारे शिवलोकस्तत्र शिवो देवता पिण्डमध्येऽ नुपमस्वरूपी तिष्ठति । लम्बिकामूले भैरवलोकस्तत्र भैरवो देवता पिण्डमध्ये सर्वोत्तमस्वरूपी तिष्ठति ॥ ललाटमध्येऽनादिलोकस्तत्रानादि-देवता पिण्डमध्ये आनन्दपरा
१- महातलं पादपृष्ठे ( ह. न.).