Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 86
________________ १.३. सर्वेन्द्रियजयः आहार - निद्रा - शीतवातातपजयश्चैवं शनैः शनै साधयेत् ॥ ३२ ॥ नियम इति मनोवृत्तीनां नियमनमिति एकान्तवासो निःसंगतौदासीन्यं यथा प्राप्ति - सन्तुष्टिर्वैरस्यं गुरुचरणावरूढत्वमिति नियमलक्षणम् || ३३ ॥ - आसनमिति स्वस्वरूपे समासन्नता । स्वस्तिकासनं पद्मासनं सिद्धासनमेतेषां मध्ये यथेष्टमेकं विधाय सावधानेन स्थातव्यं इत्यासनलक्षणम् ॥ ३४ ॥ प्राणायाम इति प्राणस्य स्थिरता रेचक - पूरक- कुम्भकसंघट्टकरणानि चत्वारि प्राणायाम - लक्षणम् ।। ३५ ।। प्रत्याहारमिति चैतन्यतरीणां प्रत्याहरणं यथा नानाविकारग्रसनोत्पन्नविकारस्यापि निवृत्तिः निर्भातीति प्रत्याहारलक्षणम् ।। ३६ ।। धारणेति सत्राह्याभ्यन्तर एकमेव निजतत्वस्वरूपमेवान्तःकरणेन साधयेत् यथा यद्यदुत्पद्यते तत्तन्निराकारे धारयेत् स्वात्मानं निर्वात दीपमित्र धारयेदिति धारणालक्षणम् ।। ३७ ।। अथ ध्यानमिति । अस्ति कश्चन परमाद्वैतस्य भावः स एव आत्मेति यथा यद्यत्स्फुरति तत्तत्स्वरूपमेवेति भावयेत् सर्वभूतेषु समदृष्टिश्चेति ध्यानलक्षणम् ।। ३८ ।। अथ समाधिलक्षणम् । सर्वतत्वानां समावस्था निरुद्यमत्वमनायास। स्थितिमत्त्वमिति समाधिलक्षणम् । इति अष्टाङ्गयोगलक्षणम् ॥ ।। इति श्रीगोरक्षनाथकृतौ सिध्दसिध्दान्तपद्धतौ पिण्डविचारो नाम द्वितीयोपदेशः ॥ २ ॥ ११ - तुरङ्गाणां (ह. का. ).

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166