Book Title: Siddha Siddhanta Paddhati Author(s): Kalyani Mallik Publisher: Poona Oriental Book House PoonaPage 85
________________ ܐܐ किरणानाकुलितं पश्यति एवं निर्मलीकरणम् । अथवोर्ध्वदृष्टयान्तरालं लक्षयेत् ज्योतिर्मुखानि पश्यति अथवा यंत्र तत्राकाशं लक्षयेदाकाशसदृशं चित्तं मुक्तिप्रदं भवति अथवा दृष्ट्यान्तस्तप्तकांचनसंनिभां भूमिं लक्षयेत् दृष्टिः स्थिरा भवति । इत्यनेकविधं बहिर्लक्ष्यम् ।। २८ ।। अथ मध्यमं लक्ष्यं कथ्यते ॥ श्वेतवर्णं वा रक्तवर्णं वा कृष्णवर्णं वा अग्निशिखाकारं वा ज्योतिरूपं वा विद्युदाकारं सूर्यमण्डलाकारं वा अर्द्धचन्द्राकारं वा यथेष्टस्वपिण्डमात्रं स्थानवर्जितं मनसा लक्षयेत् इत्यनेकविधं मध्यमं लक्ष्यम् ।। २९ ।। अथ व्योमपञ्चकं लक्षयेत || आकाशं पराकाशं महाकाशं तत्वाकाशं सूर्याकाशमिति व्योमपञ्चकम् । बाह्याभ्यन्तरेऽत्यन्तं निर्मलं निराकारमाकाशं लक्षयेत् । अथवा बाह्याभ्यन्तरेऽत्यन्तान्धकारनिभं पराकाशमवलोकयेत् । बाह्याभ्यन्तरे कालानलसंकाशं महाकाशमवलोकयेत् । बाह्याभ्यन्तरे निजतत्वखरूपं तत्वाकाशवलोकयेत् । अथवा बाह्याभ्यन्तरे सूर्यकोटिसदृशं सूर्याकाशमवलोकयेत् । एवं व्योमपञ्चकावलोकनेन व्योमसदृशो भवति ।। ३० ॥ उक्तश्च : नवचक्रं कलाधारं त्रिलक्ष्यं व्योमपञ्चकम् । सम्यगेतन्न जानाति स योगी नामधारकः ॥ ३१ ॥ अथ अष्टाङ्ग योगः । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि । यम इति उपशमः - किरणा आकुलितं तटं ( तं.). १० - तत्र (ह.).Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166