SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ܐܐ किरणानाकुलितं पश्यति एवं निर्मलीकरणम् । अथवोर्ध्वदृष्टयान्तरालं लक्षयेत् ज्योतिर्मुखानि पश्यति अथवा यंत्र तत्राकाशं लक्षयेदाकाशसदृशं चित्तं मुक्तिप्रदं भवति अथवा दृष्ट्यान्तस्तप्तकांचनसंनिभां भूमिं लक्षयेत् दृष्टिः स्थिरा भवति । इत्यनेकविधं बहिर्लक्ष्यम् ।। २८ ।। अथ मध्यमं लक्ष्यं कथ्यते ॥ श्वेतवर्णं वा रक्तवर्णं वा कृष्णवर्णं वा अग्निशिखाकारं वा ज्योतिरूपं वा विद्युदाकारं सूर्यमण्डलाकारं वा अर्द्धचन्द्राकारं वा यथेष्टस्वपिण्डमात्रं स्थानवर्जितं मनसा लक्षयेत् इत्यनेकविधं मध्यमं लक्ष्यम् ।। २९ ।। अथ व्योमपञ्चकं लक्षयेत || आकाशं पराकाशं महाकाशं तत्वाकाशं सूर्याकाशमिति व्योमपञ्चकम् । बाह्याभ्यन्तरेऽत्यन्तं निर्मलं निराकारमाकाशं लक्षयेत् । अथवा बाह्याभ्यन्तरेऽत्यन्तान्धकारनिभं पराकाशमवलोकयेत् । बाह्याभ्यन्तरे कालानलसंकाशं महाकाशमवलोकयेत् । बाह्याभ्यन्तरे निजतत्वखरूपं तत्वाकाशवलोकयेत् । अथवा बाह्याभ्यन्तरे सूर्यकोटिसदृशं सूर्याकाशमवलोकयेत् । एवं व्योमपञ्चकावलोकनेन व्योमसदृशो भवति ।। ३० ॥ उक्तश्च : नवचक्रं कलाधारं त्रिलक्ष्यं व्योमपञ्चकम् । सम्यगेतन्न जानाति स योगी नामधारकः ॥ ३१ ॥ अथ अष्टाङ्ग योगः । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि । यम इति उपशमः - किरणा आकुलितं तटं ( तं.). १० - तत्र (ह.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy