________________
99
द्वादशं भ्रूमध्याधारं तत्र चन्द्रमन्डलं ध्यायेत् शीतलतां याति ॥२१॥ त्रयोदर्श नासाधारं तस्याग्रं लक्षयेत् मनः स्थिरं भवति ॥२२॥ चतुर्दशे नासामूलं कवाटाधार तत्र दृष्टिं धारयेत् षण्मासाज्ज्योति:पुंजं पश्यति ॥२३॥ पञ्चदशे ललाटाधार तत्र ज्योति:पुजं लक्षयेत् तेजस्वी भवति ॥२४॥ अवशिष्टे ब्रह्मरन्ध्र आकाशचक्रं तत्र श्रीगुरुचरणाम्बुजयुग्मं सदावलोकयेत् आकाशवत्पूर्णो भवति । इतिषोडशाधारः ।।२५।। अथ लक्ष्यत्रयं ॥ मूलकन्दाद्दण्डलग्नां ब्रह्मनाडी श्वेतवर्णां ब्रह्मरन्ध्रपर्यतं गतां संस्मरेत् । तन्मध्ये कमलतन्तुनिमा विद्युत्कोटिप्रभामूर्ध्वगामिनी तां मूर्ति मनसा लक्षयेत् तत्र सर्वसिद्धिदा भवति ॥२६॥ अथवा ललाटोघे कोल्लाटमण्डपे स्फुरत्काराकारं लक्षयेत् । अथवा भ्रमरगुहामध्ये आरक्तभ्रमराकारं लक्षयेदथवा कर्णद्वयं तर्जनीभ्यां निरोधयेत् ततः शिरोमध्ये धूं धूं कारं नादं श्रृणोति अथवा चक्षुर्मध्ये नीलज्योतिरूपं पुतल्याकारं लक्षयेदित्यन्तर्लक्ष्यम् ॥ २७॥ बहिर्लक्ष्य कथ्यते ॥ नासाग्रात् बहिरंगुलचर्तुष्टये नीलज्योतिःसंकाशं लक्षयेत् । अथवा नासाग्रात् षडंगुल अधोवायुतत्वं धूम्रवर्णं लक्षयेदथवा अष्टांगुले आरक्तं तेजस्तत्वं लक्षयेत् अथवा दशाङ्गुले कल्लोलवदापस्तत्वं लक्षयेत् । अथवा नासाग्रात् द्वादशाङ्गुले पीतवर्णं पार्थिवतत्वं लक्षयेदथवा आकाशमुखं दृष्ट्वावलोकयेत्
५-धारयेत् (ह.). ६ - ध्यायेत् (ह.). ७-गोल्ललाट (ह.). ८-द्वयमारक तेजस्तत्वं (ह. त.).