SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नवममाकाशचक्रं षोडशदलकमलमूर्ध्वमुखं तन्मध्ये कर्णिकायां त्रिकूटाकारां तदूर्ध्वशक्तिं तां परमशून्यां ध्यायेत तत्रैव पूर्णगिरिपीठं सर्वेच्छासिद्धिर्भवति ॥९॥ इति नवचक्रस्य विचारः। अथ षोडशाधारः कथ्यते ।। तत्र प्रथमं पादाङ्गुष्ठाधारं तत्राग्रतस्तेजोमयं ध्यायेत् दृष्टिः स्थिरा भवति ॥१०॥ द्वितीयं मूलाधारं सूत्रं वामपाणिना निपीड्य स्थातव्यं तत्राग्निदीपनं भवति ॥११॥ तृतीयं गुदाधार विकाससंकोचं निराकुश्चयेत् अपानवायुः स्थिरो भवति ॥१२॥ चतुर्थ मेद्राधारं लिङ्गसंकोचनेन ब्रह्मग्रंथित्रयं भित्वा भ्रमर - गुहायां विश्रम्य तत ऊर्ध्वमुखे बिन्दुस्तम्भनं भवति । एषा वज्रौली प्रसिद्धा ॥१३॥ पश्चममोड्याणाधारयो बर्धनान्मलमूत्रसंकोचनं भवति ॥१४॥ षष्ठे नाभ्याधारे ॐकारमेकचित्तेनोचारिते नादलयो भवति ॥१५॥ सप्तमे हृदयाधारे प्राणं निरोधयेत् कमलविकासो भवति ॥१६॥ अष्टमे कण्ठाधारे कण्ठमूलं चिबुकेन निरोधयेत् इडापिंगलयोर्वायुः स्थिरो भवति ॥१७॥ नवमे घण्टिकाधारे जिह्वाग्रं धारयेत् अमृतकला स्रवति ॥१८॥ दशमे ताल्वाधारे ताल्वन्तगर्भे लंबिकां चालनदोहनाभ्यां दी/कृत्वा विपरीतेन प्रवेशयेत् काष्ठी भवति ॥१९॥ एकादशमथ जिह्वाधारं तत्र जिह्वाग्रं धारयेत् सर्वरोगनाशो भवति ॥२०॥ ४ - नादोदयमुपैति (का.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy