SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ द्वितीयोपदेशः A - अथ पिण्डविचारः कथ्यते ॥ पिण्डे नवचक्राणि ।। आधारे ब्रह्मचक्र त्रिधावतं भगमण्डलाकारं तत्र मूलकन्दः तत्र शक्तिं पानाकारां ध्यायेत् तत्रैव कामरूपं पीठं सर्वकामप्रदं भवति ॥१॥ द्वितीय स्वाधिष्ठानचक्रं तन्मध्ये पश्चिमाभिमुखं लिङ्गं प्रवालाङ्करसदृशं ध्यायेत् तत्रैवोड्यानपीठं जगदाकर्षणं भवति ॥२॥ तृतीयं नाभिचक्रं पश्चावत सर्पवत्कुण्डलाकारं तन्मध्ये कुण्डलिनी शक्तिं बालार्ककोटिसदृशीं ध्यायेत् सा मध्या शक्तिः सर्वसिद्धिदा भवति ॥३॥ चतुर्थ हृदयाधारमष्टदलकमलमधोमुखं तन्मध्ये कर्णिकायां लिङ्गाकारां ज्योतिर्ध्यायेत् सैव हंसकला सर्वेन्द्रियवश्या भवति ॥४॥ पञ्चमं कण्ठचक्र चतुरंगुलं तत्र वामे इडा चन्द्रनाडी दक्षिण पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां ध्यायेत् सैवानाहतकला अनाहतसिद्धिर्भवति ॥५॥ षष्ठं तालुचक्र तत्रामृतधाराप्रवाहः घंटिकालिङ्ग मूलरन्ध्र राजदन्तं शंखिनीविवरं दशमद्वारं तत्र शून्यं ध्यायेत् चित्त• लयो भवति ॥६॥ सप्तमं भूचक्र मध्यमाङ्गुष्ठमात्र ज्ञाननेत्रं दीपशिखाकारं ध्यायेत् वाचां सिद्धिर्भवति ॥७॥ अष्टमं ब्रह्मरन्ध्रनिर्वाणचक्र मूचिकायवेध्यं धूमशिखाकारं ध्यायेत् तत्र जालन्धरपीठं मोक्षप्रदं भवति ॥८॥ १- पावकाकारां (ह. तं.). २- कामफलप्रदं ( ह. तं.). ३ - सर्वेन्द्रियाणि वश्यानि (ह.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy