Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 417
________________ ... ४१० ) वाटाटयात् ।।३।१०३॥ अटेर्यङन्तात् स्त्रियां मावाकोंर्यो वा स्यात् । अटाट्या । अटाटा ॥१०॥ वाटाट्यात०-। अटाटयति धातुपाठऽदृष्टत्वादाह-अटेर्यडन्तादिति 'अट' गतो' भृशं पुनः पुनर्वा अटनमिति अयति०'।३।४।१०। इति यङि' 'स्वरादेद्वितीयः' ।४।१।४। इति द्वितीयस्यैकस्वररांशस्य ‘टय' इत्यस्य द्वित्वे पूर्वस्यानादिव्यञ्जनलोपे 'आगुणा०' ।४।१।४१॥ इत्यस्य आकारे च 'अटाट्य' इति यङन्तो धातः, ततोऽनेन ये 'अतः' ४।३।८। इत्यकारलोपे 'योऽशिति' ।४।३।८०। इति यलोपे स्त्रियामापि च-अटाट्या । अस्य वैकल्पिकत्वात् पक्षे शंसिप्रत्ययात्' ।५।३।१०५॥ इत्यप्रत्यये प्राग्वदकारस्यकारयोर्लोपे स्त्रियामापि च-अटाटा १०३॥ जागुरश्च ।।३।१०४॥ जागुः स्त्रियां भावाककोरः, यश्चस्यात् । जागरा, जाग।१०४॥ जागुरश्च०-। 'जागृक् निद्राक्षये' अतोऽप्रत्यये, गुणे,, स्त्रियामापि चजागरा, जागर्या ॥१०४॥ श सिप्रत्ययात् ।।३।१०५॥ शंसेः प्रत्ययान्तात् च भावाकों स्त्रियामः स्यात् । प्रशंसा। गोपावा ॥१०॥ शंसिप्रत्ययात्। 'शंसू स्तूती च' चकाराद् हिंसायाम, अतोऽनेन 'अ' प्रत्यये स्त्रियामापि च= प्रशंसा । 'गुपौ रक्षणे' अतः 'गुपो घूप०' ।३४११ इति स्वार्थे आयप्रत्यये उपान्त्यगुणे च 'गोपाय' इति प्रत्ययान्ताद् धातोरनेन 'अ' प्रत्यये पूर्वाकारलोपे स्त्रियामापि च=गोपाया। 'शंस्'

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476